This page has been fully proofread once and needs a second look.

उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहितः ।
 
३५
 
जलावस्थितेरुदवासतपस्त्वेनाध्यवसितायाः कामिनीचरणसायुज्यप्राप्तिर्न फल-
मिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्षणाद सिद्धविषया फलो-
स्प्रे
त्पेक्षा । अनेनैव क्रमेणोदाहरणान्तराणि ।
 

 
बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि ।

सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥

 
अत्र पलाशकुसुमानां वक्रत्वलोहितत्वेन संसम्बन्धेन निमित्तेन सद्यःकृतन-
खक्षततादात्म्यसंसम्भावनादुक्तविषया स्वरूपोत्प्रेक्षा ॥
 

 
[commentary]
 
हेतोश्च स्वप्रयोज्याश्रयत्वसंसम्बन्धेन रक्तत्वविशिष्टे तस्य प्रकारतासंबन्धेन संसम्भाव-
नायां तस्याश्च विषयतया चरणयोरन्वयः । तथाच भूम्यधिकरणकविक्षेपणाभि-

न्
नहेतुकरक्तप्रकारकसंसम्भावनाविषयावी इति बोधः । नच तादात्म्यसंसम्बन्धेन हे-
तुविधेयकत्वाभावान्नेयं हेतूत्प्रेक्षा स्याकिंकिन्तु तादात्म्येन तथाविधरक्तस्वरूपोत्प्रे-
क्षैवेति वाच्यम् । विवक्षितविवेकेन विक्षेपणे हेत्वभेदस्योत्प्रेक्षणीयतया विक्षेपणं
प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वोपगमात् । मुखं चन्द्र इत्यादिरूपक इवानु-
योगित्वमुखस्याभेदस्य विक्षेपणसंसर्गत्वाभ्युपगमेन च विक्षेपणे हेत्वभेदभानसं-
सम्भवात् । हेतुविशिष्ट स्वरूपोत्प्रेक्षाया मुखतः प्रतीतावपि विवक्षावशेन हेतूत्प्रेक्षा-
त्वेनैव व्यपदेशः । यथा 'दध्ना जुहोति' इत्यत्र मुखतो दधिविशिष्टहोमप्रतीता-
वपि विवक्षितविवेकेन होमे दधिविधित्वव्यपदेश इति बोध्यम् । नच स्वप्रयो-
ज्यत्वसंसम्बन्धेन स्वप्रयोज्याश्रयत्वसंसम्बन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव रक्तादौ स्वीक्रि-
यतां कृतमीदृशकल्पनाक्लेशेनेति वाच्यम् । धर्मोत्प्रेक्षाङ्गीकारे दूषणस्य प्रागेवावे-
दितत्वात् । अतएव 'हर्षालालग्ना ( मन्ये ) ललिततनु ते पादयोः पद्मलक्ष्मीः' इति
हेतूत्प्रेक्षामुदाहृतवतः प्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसंसम्भावनमे-
व स्वाभाविके लगनेऽभिमतम् । अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक्त-
हर्षहेतुकलगनतादात्म्यसंसम्भावनमुचितम् । लगनस्य धर्म्युपसर्जनत्वेन संसम्भावना-
यामन्वयायोगादिति ध्येयम् । एवं त्वन्मुखाभेच्छया इत्यसिद्धविषय हेतूत्प्रेक्षाया-
मपि बोध्यम् । विषयसिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावात् । मध्यः किमि -
त्यादिफलोत्प्रेक्षास्थले फलं चतुर्थ्यर्थः । तत्र चामेदेन प्रकृत्यर्थान्वयः पूर्ववत् ।
फलस्य च प्रयोजकत्वसंसर्गेण बद्धत्वे तद्वारकेण तेनैव बद्धे वान्वयस्तत्तादात्म्य-
संसर्गक संसम्भावनाया मध्ये विषयतया । एवंच कुचधारणाभिन्नफलककनकदामक-
रणकबद्धत्वाश्रयसंसम्भावनाविषयो मध्य इति बोधः । एवं प्रायोऽब्ज मित्यादावपि
फलं तुमुनोऽर्थ इति पूर्ववदेव बोधः फलोत्प्रेक्षात्वं चोपदर्शितरीत्योपपादनी-
यमिति बहुवक्तव्येऽपि विस्तरभयादुपरम्यते ॥ बालेन्दुवक्राणीति ॥ न वि-
द्यते विकासो येषां तान्यविकासानि तेषां भावाद्विकासरहितत्वाद्धेतोर्बालेन्दुवत्

द्वितीयाचन्द्रवद्वावक्राणि तथातिशयेन लोहितान्यारक्तानि पलाशानि पलाशकुसु-
मानि वसन्तेन नायकेन समागमं प्राप्तानां वनस्थलीनामङ्गनानां सद्यस्तत्कालसं-