2023-02-17 12:58:43 by ambuda-bot
This page has not been fully proofread.
३४
कुवलयानन्दः । [ उत्प्रेक्षालंकारः १२
'कर्ता यद्युपमानं स्याश्यग्भूतोऽसौ क्रियापदे ।
स्वक्रिया साधनव्यग्रो नालमन्यद्व्यपेक्षितुम् ॥' इति ।
केचित्तु तमोनभसोर्विषययोस्तत्कर्तृक लेपनवर्षणस्वरूपधर्मोत्प्रेक्षेत्याहुः । त-
न्मते स्वरूपोत्प्रेक्षायां धर्ग्युत्प्रेक्षा धर्मोप्रेक्षा चेत्येवं द्वैविध्यं द्रष्टव्यम् । चर-
णयोः स्वतः सिद्धे रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतुनोस्तस्य हेतुत्वेन
संभावना हेतूत्प्रेक्षा विक्षेपणस्य विषयस्य सत्त्वात्सिद्धविषया । चन्द्रपद्मवि-
रोधे स्वाभाविके नायिकावदनकान्तिप्रेप्सा न हेतुरिति तत्र तद्वेतुत्वसंभावना
हेतूत्प्रेक्षा वस्तुतस्तदिच्छाया अभावादसिद्धविषया । मध्यः स्वयमेव कुचौ
धरति न तु कनकदामबन्धत्वेनाध्यवसिताया वलित्रयशालिताया बला-
दिति मध्यकर्तृककुचटतेस्तत्फलत्वेनोत्प्रेक्षा सिद्धविषया फलोत्प्रेक्षा । जलजस्य
वेत्युत्तरमयमेव व्याख्यानग्रन्थः प्रमाद लिखितो दृश्यते ॥ न्यग्भूत इति ॥ गुण-
भूत इत्यर्थः ॥ स्वक्रियेति ॥ क्रियां प्रति साधनत्वेनान्वित इत्यर्थः । व्यपे-
क्षितुमाकाङ्क्षितुम् । नालं न समर्थः । तथाच निराकाङ्क्षत्वादुपमानत्वेनान्वयो न
संभवतीति भावः । एतेन तमसि लेपनकर्तृलमुत्प्रेक्ष्य मित्यलंकारसर्वस्व
कारमत-
मपास्तम् । तस्यापि कर्तृविशेषणत्वाद्विवक्षितविवेकेन लेपनस्यैवोत्प्रेक्ष्यत्वाच ।
एवंच प्रधानभूतलेपनक्रियागोचरा भावनैव निगीर्णव्यापनविषयेति सिद्धम् । नच
युगपद्वृत्तिद्वयविरोधः शयस्तदनभ्युपगमात् । केचिदिति तम इति चाखरसो-
द्भावनम् । तद्वीजं तु तमोनभसोः कर्तृत्वेन विषयत्वेन च वारद्वयमन्वयक्लेशः । तथा
धर्म्युत्प्रेक्षा सा धर्मप्रयुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मसंवन्धप्रयुक्तेति लक्षणा-
ननुगमः । नच तन्निष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगम इति
वाच्यम् । सर्वत्र सादृश्यनिमित्ताया एवोत्प्रेक्षायाः संभवेनान्यतरत्वादिनिवेशप्र-
युक्तगौरवस्यानुपादेयत्वादिति ॥ हेतुत्वेनेति ॥ हेतुरूपतयेत्यर्थः । हेतुत्वसं-
भावना हेतुरूपतासंभावना । फलत्वेन फलरूपतया । एवमग्रेऽपि बोध्यम् ॥ अ
थोदाहृतासूत्प्रेक्षासु बोधप्रकारः प्रदर्श्यते । तत्र धूमस्तोममित्यादौ कोकाङ्गनावि-
रहानलसंबन्धिधूमस्तोमाभिन्नतमोविषया संभावनेति बोधः । नामार्थयोरभेदा-
न्वयात् । एवं 'मुखं चन्द्रं मन्ये' इत्यादावपि । नूनं मुखं चन्द्र इत्यादौ तु चन्द्र-
प्रकारकसंभावनाविषयो मुखमिति बोधः । मुखविषया चन्द्रप्रकारिका च संभा-
वना तादात्म्य संसर्गिकैव । तथानुभवाच्चमत्कारप्रयोजकस्य संसर्गान्तरस्याभावा-
च । नचैवं चन्द्रत्वप्रकारिका, तस्य चन्द्रोपसर्जनत्वात् । एवं ध्रुवेवादिशब्दसम-
भिव्याहारेऽपि बोध्यम् । लिम्पतीवेत्यनुक्तविषयोत्प्रेक्षोदाहरणे तु लिम्पतिना
साध्यवसानलक्षणया लेपनव्यापनोभयसाधारणेन सान्द्रमलिनीकारकत्वादिना
रूपेणोपस्थापिते तमोव्यापने लेपनसंभावनान्वयात्सान्द्र मलिनीकारकतमः कर्तृ-
काङ्गकर्मकलेपनप्रकारकसंभावनाविषय इति बोधः । व्यञ्जनयोपस्थिते व्यापने
तादृशसंभावनान्वय इति प्रदीपकृतः । एवं वर्षतीत्यादावपि बोध्यम् । विक्षेप-
णाद्भुवमित्यादिहेतूत्प्रेक्षोदाहरणे हेतुः पञ्चम्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः ।
-