2023-04-20 09:17:26 by Bharadwajraki
This page has been fully proofread twice.
'कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे ।
स्वक्रियासाधनव्यग्रो नालमन्यद्व्यपेक्षितुम् ॥' इति ।
केचित्तु तमोनभसोर्विषययोस्तत्कर्तृकलेपनवर्षणस्वरूपधर्मोत्प्रेक्षेत्याहुः । तन्मते स्वरूपोत्प्रेक्षायां धर्म्युत्प्रेक्षा धर्मोत्प्रेक्षा चेत्येवं द्वैविध्यं द्रष्टव्यम् । चरणयोः स्वतः सिद्धे रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतुनोस्तस्य हेतुत्वेन सम्भावना हेतूत्प्रेक्षा विक्षेपणस्य विषयस्य सत्त्वात्सिद्धविषया । चन्द्रपद्मविरोधे स्वाभाविके नायिकावदनकान्तिप्रेप्सा न हेतुरिति तत्र तद्वेधेतुत्वसम्भावना हेतूत्प्रेक्षा वस्तुतस्तदिच्छाया अभावादसिद्धविषया । मध्यः स्वयमेव कुचौ
धरति न तु कनकदामबन्धत्वेनाध्यवसिताया वलित्रयशालिताया बलादिति मध्यकर्तृककुचदृ- धृतेस्तत्फलत्वेनोत्प्रेक्षा सिद्धविषया फलोत्प्रेक्षा । जलजस्य
[commentary]
वेत्युत्तरमयमेव व्याख्यानग्रन्थः प्रमादलिखितो दृश्यते ॥ न्यग्भूत इति ॥ गुणभूत इत्यर्थः ॥ स्वक्रियेति ॥ क्रियां प्रति साधनत्वेनान्वित इत्यर्थः । व्यपेक्षितुमाकाङ्क्षितुम् । नालं न समर्थः । तथाच निराकाङ्क्षत्वादुपमानत्वेनान्वयो न सम्भवतीति भावः । एतेन तमसि लेपनकर्तृत्वमुत्प्रेक्ष्यमित्यलंकारसर्वस्वकारमतमपास्तम् । तस्यापि कर्तृविशेषणत्वाद्विवक्षितविवेकेन लेपनस्यैवोत्प्रेक्ष्यत्वाच्च । एवंच प्रधानभूतलेपनक्रियागोचरा भावनैव निगीर्णव्यापनविषयेति सिद्धम् । नच युगपद्वृत्तिद्वयविरोधः शङ्क्यस्तदनभ्युपगमात् । केचिदिति तम इति चास्वरसोद्भावनम् । तद्वीबीजं तु तमोनभसोः कर्तृत्वेन विषयत्वेन च वारद्वयमन्वयक्लेशः । तथा धर्म्युत्प्रेक्षा सा धर्मप्रयुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मसंवबन्धप्रयुक्तेति लक्षणाननुगमः । नच तन्निष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगम इति वाच्यम् । सर्वत्र सादृश्यनिमित्ताया एवोत्प्रेक्षायाः सम्भवेनान्यतरत्वादिनिवेशप्रयुक्तगौरवस्यानुपादेयत्वादिति ॥ हेतुत्वेनेति ॥ हेतुरूपतयेत्यर्थः । हेतुत्वसंभावना हेतुरूपतासंभावना । फलत्वेन फलरूपतया । एवमग्रेऽपि बोध्यम् ॥ अ-
थोदाहृतासूत्प्रेक्षासु बोधप्रकारः प्रदर्श्यते । तत्र धूमस्तोममित्यादौ कोकाङ्गनावि-
रहानलसंबन्धिधूमस्तोमाभिन्नतमोविषया संभावनेति बोधः । नामार्थयोरभेदान्वयात् । एवं 'मुखं चन्द्रं मन्ये' इत्यादावपि । नूनं मुखं चन्द्र इत्यादौ तु चन्द्रप्रकारकसंभावनाविषयो मुखमिति बोधः । मुखविषया चन्द्रप्रकारिका च संभावना तादात्म्य संसर्गिकैव । तथानुभवाच्चमत्कारप्रयोजकस्य संसर्गान्तरस्याभावाच्च । नचैवं चन्द्रत्वप्रकारिका, तस्य चन्द्रोपसर्जनत्वात् । एवं ध्रुवेवादिशब्दसमभिव्याहारेऽपि बोध्यम् ।लिम्पतीवेत्यनुक्तविषयोत्प्रेक्षोदाहरणे तु लिम्पतिना साध्यवसानलक्षणया लेपनव्यापनोभयसाधारणेन सान्द्रमलिनीकारकत्वादिना रूपेणोपस्थापिते तमोव्यापने लेपनसम्भावनान्वयात्सान्द्रमलिनीकारकतमः कर्तृकाङ्गकर्मकलेपनप्रकारकसंभावनाविषय इति बोधः । व्यञ्जनयोपस्थिते व्यापने तादृशसंभावनान्वय इति प्रदीपकृतः । एवं वर्षतीत्यादावपि बोध्यम् । विक्षेपणाद्भुध्रुवमित्यादिहेतूत्प्रेक्षोदाहरणे हेतुः पञ्चम्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः ।
स्वक्रियासाधनव्यग्रो नालमन्यद्व्यपेक्षितुम् ॥' इति ।
केचित्तु तमोनभसोर्विषययोस्तत्कर्तृकलेपनवर्षणस्वरूपधर्मोत्प्रेक्षेत्याहुः । तन्मते स्वरूपोत्प्रेक्षायां धर्म्युत्प्रेक्षा धर्मोत्प्रेक्षा चेत्येवं द्वैविध्यं द्रष्टव्यम् । चरणयोः स्वतः सिद्धे रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतुनोस्तस्य हेतुत्वेन सम्भावना हेतूत्प्रेक्षा विक्षेपणस्य विषयस्य सत्त्वात्सिद्धविषया । चन्द्रपद्मविरोधे स्वाभाविके नायिकावदनकान्तिप्रेप्सा न हेतुरिति तत्र तद्
धरति न तु कनकदामबन्धत्वेनाध्यवसिताया वलित्रयशालिताया बलादिति मध्यकर्तृककुच
[commentary]
वेत्युत्तरमयमेव व्याख्यानग्रन्थः प्रमादलिखितो दृश्यते ॥ न्यग्भूत इति ॥ गुणभूत इत्यर्थः ॥ स्वक्रियेति ॥ क्रियां प्रति साधनत्वेनान्वित इत्यर्थः । व्यपेक्षितुमाकाङ्क्षितुम् । नालं न समर्थः । तथाच निराकाङ्क्षत्वादुपमानत्वेनान्वयो न सम्भवतीति भावः । एतेन तमसि लेपनकर्तृत्वमुत्प्रेक्ष्यमित्यलंकारसर्वस्वकारमतमपास्तम् । तस्यापि कर्तृविशेषणत्वाद्विवक्षितविवेकेन लेपनस्यैवोत्प्रेक्ष्यत्वाच्च । एवंच प्रधानभूतलेपनक्रियागोचरा भावनैव निगीर्णव्यापनविषयेति सिद्धम् । नच युगपद्वृत्तिद्वयविरोधः शङ्क्यस्तदनभ्युपगमात् । केचिदिति तम इति चास्वरसोद्भावनम् । तद्