This page has been fully proofread once and needs a second look.

त्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते । अत्र आद्या स्वरूपोत्प्रेक्षा उक्तविषयाऽनुक्तविषया चेति द्विविधा । परे हेतुफलोत्प्रेक्षे सिद्धविषयासिद्धविषया चेति प्रत्येकं द्विविधे । एवं षण्णामुत्प्रेक्षाणां धूमस्तोमेत्यादीनि क्रमेणोदाहरणानि । रजनीमुखे सर्वत्र विसृत्वरस्य तमसो नैल्यदृष्टिप्रतिरोध-
कत्वादिधर्मसम्बन्धेन गम्यमानेन निमित्तेन सद्यः प्रियविघटितसर्वदेशस्थि-तकोकाङ्गनाहृदुपगतप्रज्वलिप्यद्विरहानलधूमस्तोमतादात्म्यसम्भावनास्वरूपोत्प्रेक्षा तमसो विषयस्योपादानादुक्तविषया । तमोव्यापनस्य नभःप्रभृतिभूपर्यन्तसकलवस्तुसान्द्र- मलिनीकरणेन निमित्तेन तमः कर्तृकलेपनतादात्म्योत्प्रेक्षा नभःकर्तृकाञ्जनवर्षणतादात्म्योत्प्रेक्षा चानुक्तविषया स्वरूपोत्प्रेक्षा, उभयत्रापि विषयभूततमोव्यापनस्यानुपादानात् ॥ नन्वत्र तमसो व्यापनेन निमित्तेन लेपनकर्तृतादात्म्योत्प्रेक्षा नभसो भूपर्यन्तं गाढनीलिमव्याप्तत्वेन निमि-
त्तेनाञ्जनवर्षणकर्तृतादात्म्योत्प्रेक्षा चेत्युत्प्रेक्षाद्वयमुक्तविषयमेवास्तु । मैवम् । लिम्पति वर्षतीत्याख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति स्मृतेर्धात्वर्थक्रियाया एव प्राधान्येन तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षणीयतया अन्यत्रान्वयासम्भवात् । अतएव आख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वेनान्यत्रान्वयासम्भवादेवास्योपमायामुपमानतयान्वयोऽपि दण्डिना निराकृतः ।
 
[commentary]
-

शङ्के सत्यवतो मुखम् । येन सा मृगशावाक्षी सावित्री तरलीकृता ॥' इत्यादाव-
तिप्रसङ्गवारणाय तन्निष्ठेति । संभाव्यमानवृत्तित्वं धर्मविशेषणम् । तत्र सावित्री-
तरलीकारकत्वरूपो धर्मो मुखवृत्तिर्न तु संभाव्यमानवृत्तिरिति नातिप्रसङ्ग इति
दिक् । वस्तुहेतुफलात्मता वस्तुहेतुफलतादात्म्यम् । ननु संसम्बन्धान्तरेणोत्प्रेक्षाया
असंग्रह इति चेन्न । सर्वत्राभेदेनैवोत्प्रेक्षणमिति प्राचीनमतानुसारेणेत्थमभिधा-
नात् । एतत्सूचनायैव लक्षणेऽत्र च तादात्म्योपादानमिति ॥ नन्वलंकारसर्वस्वका
रादिभिः स्वरूपोत्प्रेक्षेति व्यवहृतायास्तुरीयाया अपि सत्वात्रिविधेत्ययुक्तमित्याशङ्क्याह -
क्याह –
- अत्रेति ॥ आसां मध्ये या प्रथमा वस्तूत्प्रेक्षा सैव स्वरूपोत्प्रेक्षेत्युच्यत
इत्यर्थः ॥ विसृत्वरस्येति ॥ प्रसरणशीलस्येत्यर्थः । तमस इति संभावने-
त्यनेनान्वेति । षष्ठ्यर्थो विषयता । तमोविषयेत्यर्थः । प्रतिरोधकत्वादीत्यादिपदा-
त्प्रसरणशीलत्वस्य संग्रहः । प्रियैः पतिभिर्विघटिता वियुताः । व्यापनस्येति
ष्ठ्यन्तस्य पूर्ववदुत्प्रेक्षापदेनान्वयः । एवमप्रेतनस्य तमस इत्यस्यापि ॥ अनुपा-
दानादिति ॥ विषयिवाचकाभ्यां लिम्पतिवर्षतिभ्यामन्येनानुपादानादित्यर्थः ।
यथाश्रुते ताभ्यामेव साध्यवसानलक्षणयोपादानादसंगतेः ॥ उक्तविषयमेवे-
ति ॥ सकृदुच्चारिताभ्यां लिम्पतिवर्षतिभ्यां शक्त्या लेपनवर्षणयोः साध्यवसान-
लक्षणया च साधारणधर्मपुरस्कारेण व्यापनस्य चोपस्थापनस्य युगपद्वृत्तिद्रय वि
विरोधेनासंभवादित्याशयः । स्मृतेर्निरुक्तस्मृतेः । उत्प्रेक्षणीयतया उत्प्रेक्षाविषयत-
या । अन्यत्रोत्प्रेक्षायाम् ॥ अन्वयासंभवादिति ॥ निराकाङ्क्षत्वादिति भावः ।
अतएवाख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वेनान्यत्रान्वयासंभवादेव । क्वचिदतए-

कुव. ५