This page has been fully proofread twice.

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥ ३३ ॥
रक्तौ तवाङ्गीघ्री मृदुलोलौ भुवि विक्षेपणाद्भुध्रुवम् ।
 
त्वन्मुखाभेच्छया नूनं प[‌^१]द्मैर्वैरायते शशी ॥ ३४ ॥
मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः ।

प्रायोऽयं त्वत्पब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ३५ ॥
 
अन्यधर्मसम्बन्धनिमित्तेनान्यस्यान्यतादात्म्यसम्भावनमुत्प्रेक्षा । सा वस्तुहेतुफलात्मतागोचरत्वेन त्रिविधा । अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसम्भावना प्रथमा स्वरूपोत्प्रेक्षेत्युच्यते । अहेतोर्हेतुभावेनाफलस्य फलत्वेनो-
 
[commentary]
 
इत्यन्वयः । कोकस्य चक्रवाकस्य स्त्री कोकी तस्या विरहरूपाणां शुष्मणामग्नीनां सम्बन्धिनं धूमसमूहमित्यर्थः ॥ लिम्पतीवेति ॥ अत्र तम इति नभ इति च कर्तृपदम् । रक्तावित्यादि दयितांप्रति नायकस्योक्तिः । तव मृदुलौ सुकुमारावङ्ग्घ्री चरणौ ध्रुवं भुवि विक्षेपणाद्धेतोः रक्तवर्णाविति ॥ त्वन्मुखेति ॥ पद्मगतायास्त्वन्मुखकान्तेरिच्छया । हेतुनेत्यर्थः ॥ वैरायत इति ॥ वैरं करोतीत्यर्थे 'शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे' इति क्यङ् ॥ मध्य इति ॥ मध्यभागः कुचयोरृर्धृत्यै धारणार्थं कनकस्य दामभी रज्जुभिरिति निगीर्याध्यवसानरूपातिशयोक्त्या
वलिभिर्बद्धः किमित्यर्थः॥ प्राय इति ॥ अब्जं कर्तृ । प्रायो बहुधा त्वच्चरणेन सहैक्यं प्राप्तुं तोये जले तपस्यति । तपश्चरतीत्यर्थः । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'तपसः परस्मैपदं च ' इति परस्मैपदम् । लक्षणं परिष्कुरुते - अन्यधर्मेति ॥ अन्यस्य विषयिणो यो धर्मस्तत्सम्बन्धरूपेण निमित्तेनान्यस्यान्यविषयकमन्यस्य विषयिणस्तादात्म्येन सम्भावनमित्यर्थः । अन्यस्येति षष्ठ्यर्थो विषयता धर्मितारूपा । विषयिण इति षष्ठ्यर्थस्तु विशेषणतारूपा विष-
यता । अन्यत्वेनोत्कीर्तनं च सम्भावनाया आहार्यतासूचनाय । तथाच विषयिनिष्ठधर्मसम्बन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहार्यसंभा-चनमुत्प्रेक्षेति पर्यवसितम् । तन्निष्ठधर्मसम्बन्धप्रयुक्तमाहार्यतत्सम्भावनमिति तु निष्कर्षः । इतरांशस्याव्यावर्तकतया स्वरूपकथनमात्रपरत्वात् । मुखं चन्द्रं मन्य इत्युत्प्रेक्षायां चन्द्रनिष्ठाह्लादकत्वादिधर्मसम्बन्धप्रयुक्तं मुखे चन्द्रसम्भावनमाहार्यमस्तीति लक्षणसमन्वयः । बाधाद्यभावदशायां तु जायमाना मुखादौ चन्द्रादिसम्भावनोत्प्रेक्षेति तंद्वारणायाहार्येति । एतेन 'विरक्तसन्ध्यापरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते । शङ्के हनुमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ इत्यत्र रजोभरोद्गमनरूपससैन्यप्रत्युद्गन्तृधर्मसम्बन्धप्रयुक्तायां भरते तत्संभावनायामपि नातिव्याप्तिः । तस्या अनाहार्यत्वात् 'सम्भावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये' इति वक्ष्यमाणसम्भावनालंकारविषये 'यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव' इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम् । सर्वातिशायिसौन्दर्यं
 
[‌^१] 'पद्मे वैरायते'.