This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [ उत्प्रेक्षालकार: १२
 
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥ ३३ ॥

रक्तौ तवाङ्गी मृदुलो भुवि विक्षेपणाद्भुवम् ।

 
त्वन्मुखाभेच्छया नूनं प[‌^१]द्मैर्वैरायते शशी ॥ ३४ ॥

मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः ।

प्रायोऽयं त्वत्पनैक्यं प्राप्तुं तोये तपस्यति ॥ ३५ ॥

 
अन्यधर्मसंसम्बन्ध निमित्तेनान्यस्यान्यतादात्म्य संसम्भावनमुत्प्रेक्षा । सा वस्तु-
हेतुफलात्मतागोचरत्वेन त्रिविधा । अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्य-
सं
सम्भावना प्रथमा स्वरूपोत्प्रेक्षेत्युच्यते । अहेतोर्हेतुभावेनाफलस्य फलत्वेनो-
३२
 
-
 

 
[commentary]
 
इत्यन्वयः । कोकस्य चक्रवाकस्य स्त्री कोकी तस्या विरहरूपाणां शुष्मणामग्नीनां
सं
सम्बन्धिनं धूमसमूहमित्यर्थः ॥ लिम्पतीवेति ॥ अत्र तम इति नभ इति च
कर्तृपदम् । रक्तावित्यादि दयितांप्रति नायकस्योक्तिः । तव मृदुलौ सुकुमारावजी
ङ्ग्री चरणौ ध्रुवं भुवि विक्षेपणाद्धेतोः रक्तवर्णाविति ॥ त्वन्मुखेति ॥ पद्मगतायास्त्व-
न्मुखकान्तेरिच्छया । हेतुनेत्यर्थः ॥ वैरायत इति ॥ वैरं करोतीत्यर्थे 'शब्द-
वैरकलहाभ्रकण्वमेधेभ्यः करणे' इति क्यङ् ॥ मध्य इति ॥ मध्यभागः कुच-
योरृत्यै धारणार्थं कनकस्य दामभी रज्जुभिरिति निगीर्याध्यवसानरूपातिशयोक्त्या

वलिभिर्बद्धः किमित्यर्थः॥ प्राय इति ॥ अब्जं कर्तृ । प्रायो बहुधा त्वच्चरणेन
सह्रै
सहैक्यं प्राप्तुं तोये जले तपस्यति । तपश्चरतीत्यर्थः । 'कर्मणो रोमन्थतपोभ्यां
वर्तिचरोः' इति क्यङ् । 'तपसः परस्मैपदं च ' इति परस्मैपदम् । लक्षणं परि-
ष्कुरुते - अन्यधर्मेति ॥ अन्यस्य विषयिणो यो धर्मस्तत्संसम्बन्धरूपेण निमित्ते-
नान्यस्यान्यविषयकमन्यस्य विषयिणस्तादात्म्येन संसम्भावनमित्यर्थः । अन्यस्येति
षष्ठ्यर्थो विषयता धर्मितारूपा । विषयिण इति षष्ठ्यर्थस्तु विशेषणतारूपा विष-

यता । अन्यत्वेनोत्कीर्तनं च संसम्भावनाया आहार्यतासूचनाय । तथाच विषयि-
निष्ठधर्मसंसम्बन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहार्यसंभा-
चनमुत्प्रेक्षेति पर्यवसितम् । तन्निष्ठधर्मसंसम्बन्धप्रयुक्तमाहार्यतत्संसम्भावनमिति तु
निष्कर्षः । इतरांशस्याव्यावर्तकतया स्वरूपकथनमात्रपरत्वात् । मुखं चन्द्रं म
न्य इत्युत्प्रेक्षायां चन्द्रनिष्ठाह्लादकत्वादिधर्मसंसम्बन्धप्रयुक्तं मुखे चन्द्रसंसम्भावनमाहा-
र्यमस्तीति लक्षणसमन्वयः । बाधाद्यभावदशायां तु जायमाना मुखादौ चन्द्रादि-
सं
सम्भावनोत्प्रेक्षेति तंद्वारणायाहार्येति । एतेन 'विरक्तसन्ध्यापरुषं पुरस्ताद्यथा र
जः पार्थिवमुज्जिहीते । शङ्के हनुमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ '
इत्यत्र रजोभरोद्गमनरूपससैन्य प्रत्युद्गन्तृधर्म संसम्बन्धप्रयुक्तायां भरते तत्संभावना-
यामपि नातिव्याप्तिः । तस्या अनाहार्यत्वात् 'संसम्भावनं यदीत्थं स्यादित्यूहोऽन्य -
स्य सिद्धये' इति वक्ष्यमाणसंसम्भावनालंकारविषये 'यदि शेषो भवेद्वक्ता कथिताः
स्युर्गुणास्तव' इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम् । सर्वातिशायिसौन्दर्
 
यं
 
[‌^
]'पद्मे वैरायते'.