This page has been fully proofread twice.

अत्रासत्यत्वाभिधायिना कैतवपदेन नेमे कान्ताकटाक्षाः किन्तु स्मरनाराचा इत्यपह्नवः प्रतीयते ॥
 
रिक्तेषु वारिकथया विपिनोदरेषु
मध्याह्नजृम्भितमहातपतापतप्ताः ।
स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन
जिह्वां प्रसार्य तरवो जलमर्थयते ॥ ३१ ॥
 
------------------
 
उत्प्रेक्षालंकरः १२
 
सम्भावना स्यादुत्प्रेक्षा वस्तुहेतुफला[^१]त्मना ।
उक्तानुक्तास्पदा[^२]द्यात्र सिद्धाऽसिद्धास्पदे परे ॥ ३२ ॥
 
धूमस्तोमं तमः शङ्के कोकीविर[^३]हशुष्मणाम् ।
 
[commentary]
 
पदैर्निह्नुतेर्व्यक्तौ अभिव्यक्तौ सत्यां कैतवापह्नुतिरिति व्यवहर्तव्यमित्यर्थः । कैतवेनापह्नुतिरिति व्युत्पत्तेः । व्याजाद्यैरित्यनेन मिषकपटच्छलच्छद्मकैतवादयो गृह्यन्ते । एवंच कैतवादिपदव्यङ्ग्यापह्नुतित्वं लक्षणं बोध्यम् । नाराचा बाणा: । दृक्पाताः कटाक्षाः । अपह्नवो निषेधः ॥ प्रतीयत इति ॥ असत्यत्वस्य विषयबाधाधीनत्वादिति भावः ॥ रिक्तेष्विति ॥ ग्रीष्मवर्णनम् । तरवो वृक्षा वारिणो जलस्य कथया वार्तयापि रिक्तेषु शून्येषु विपिनस्यारण्यस्योदरेषु मध्यप्रदेशेषु जलमर्थयन्ते प्रार्थयन्ते । कीदृशाः । मध्याह्ने जृम्भितः प्रवृद्धो यो महानातप उष्णं तस्य तापस्तपनं तेन तप्ताः सन्तप्ताः । किं कृत्वा ।स्कन्धान्तरात्प्रकाण्डाभ्यन्तरादुत्थितो यो दवाग्निर्दावानलस्तस्य या शिखा ज्वाला तस्याः छलेन ।
जिह्वां प्रसार्येति । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः' इत्यमरः । अत्र नेयं दवाग्निशिखा अपितु जिह्वेति च्छलपदात्प्रतीयते, अत्र चानभिहितवाच्यतादोषनिरासाय कथयापि वनोदरेष्विति पठनीयम् ॥ ३१ ॥ इत्यलंकारचन्द्रिकायामपह्नुतिप्रकरणम् ॥ ११ ॥
 
उत्प्रेक्षां लक्षयति - सम्भावनेति ॥ अत्रोत्प्रेक्षेत्यनन्तरं सा च त्रिधेत्यध्याहार्यम् । तथाच सम्भावना उत्प्रेक्षापदवाच्या स्यात्सा च वस्तुहेतुफलरूपेण त्रिघेत्यर्थः । वस्तुहेतुफलानां च सम्भावनाधर्मत्वं स्विधेयकत्व सम्बन्धेन । तेन वस्तुहेतुफल विधेयकत्वेनेति पर्यवसितार्थः । वस्तुत्वं च हेतुत्वेन फलत्वेन वा विवक्षितं यत्तद्भिन्नत्वम् । नातो वस्तुत्वस्य केवलान्वयितया विभागसंगतिः ॥ उक्त्तेत्यादि ॥ अत्र आसामुत्प्रेक्षाणां मध्ये । आद्या वस्तूत्प्रेक्षा । उक्तं चानुक्तं चोक्तानुक्ते आस्पदे यस्या इति विग्रहः । आस्पदं चोत्प्रेक्षाया धर्मिरूपो विषयः । सिद्धासिद्धेत्यत्र विग्रहः पूर्ववत् ॥ धूमेति ॥ तमः, कोकीविरहशुष्मणां धूमस्तोमं शङ्के
 
 
[^१] 'फलात्मता'.
[^२] 'स्पदार्थाश्च'.
[^३] 'विरहसोष्मणाम्'.