This page has been fully proofread once and needs a second look.

उत्प्रेक्षालंकारः १२] लंकारचन्द्रिकासहितः ।
 
३१
 
अना
त्रासत्यत्वाभिधायिना कैतवपदेन नेमे कान्ताकटाक्षाः किंकिन्तु स्मरनाराचा
 
इत्यपह्नवः प्रतीयते ॥
 

 
रिक्तेषु वारिकथया विपिनोदरेषु
 

मध्याह्नजृम्भितमहातपतापतप्ताः ।

स्कन्धान्त
रोत्थितदवाग्निशिखाच्छलेन
 
स्कन्धान्त
 

जिह्वां प्रसार्य तरवो जलमर्थयते ॥ ३१ ॥
 

------------------
 
उत्प्रेक्षालंकरः १२
सं

 
सम्
भावना स्यादुत्प्रेक्षा वस्तुहेतुफला[^१]त्मना ।

उक्तानुक्तास्पोदा[^२]द्यात्र सिद्धाऽसिद्धास्पदे परे ॥ ३२ ॥

धूमस्तोमं तमः शङ्के कोकीविरंर[^३]रहशुष्मणाम् ।
 

 
[commentary]
 
पदैर्निहुतेर्व्यक्तौ अभिव्यक्तीतौ सत्यां कैतवापह्नुतिरिति व्यवहर्तव्यमित्यर्थः । कैत-
वेनापह्नुतिरिति व्युत्पत्तेः । व्याजाद्यैरित्यनेन मिषकपटच्छलच्छद्मकैतवादयो गृ-
ह्यन्ते । एवंच कैतवादिपदव्यङ्ग्यापह्नुतित्वं लक्षणं बोध्यम् । नाराचा बाणा: ।
दृक्पाताः कटाक्षाः । अपह्नवो निषेधः ॥ प्रतीयत इति ॥ असत्यत्वस्य विषय-
बाधाधीनत्वादिति भावः ॥ रिक्तेष्विति ॥ ग्रीष्मवर्णनम् । तरवो वृक्षा वारि-
णो जलस्य कथया वार्तयापि रिक्तेषु शून्येषु विपिनस्यारण्यस्योदरेषु मध्यप्रदेशे-
षु जलमर्थयन्ते प्रार्थयन्ते । कीदृशाः । मध्याह्ने जृम्भितः प्रवृद्धो यो महानातप
उष्णं तस्य तापस्तपनं तेन तप्ताः संसन्तप्ताः । किं कृत्वा । स्कन्धान्तरात्प्रकाण्डा-
भ्यन्तरादुत्थितो यो दवाग्निर्दावानलस्तस्य या शिखा ज्वाला तस्याः छलेन ।

जिह्वां प्रसार्येति । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः' इत्य-
मरः । अत्र नेयं दवाग्निशिखा अपितु जिह्वेति च्छलपदात्प्रतीयते, अत्र चान-
भिहितवाच्यतादोषनिरासाय कथयापि वनोदरेष्विति पठनीयम् ॥ ३१ ॥ इत्य-
लंकारचन्द्रिकायामपह्नुतिप्रकरणम् ॥ ११ ॥
 
-
 

 
उत्प्रेक्षां लक्षयति - संसम्भावनेति ॥ अत्रोत्प्रेक्षेत्यनन्तरं सा च त्रिधेत्यध्या-
हार्यम् । तथाच संसम्भावना उत्प्रेक्षापदवाच्या स्यात्सा च वस्तुहेतुफलरूपेण त्रि-
घेत्यर्थः । वस्तुहेतुफलानां च संसम्भावनाधर्मत्वं स्खविधेयकत्व संसम्बन्धेन । तेन वस्तुहे-
तुफल विधेयकत्वेनेति पर्यवसितार्थः । वस्तुत्वं च हेतुत्वेन फलत्वेन वा विवक्षितं
यत्तद्भिन्नत्वम् । नातो वस्तुत्वस्य केवलान्वयितया विभागसंगतिः ॥ उक्त्तेत्या-
दि ॥ अत्र आसामुत्प्रेक्षाणां मध्ये । आद्या वस्तूत्प्रेक्षा । उक्तं चानुक्तं चोक्तानु-
क्ते आस्पदे यस्या इति विग्रहः । आस्पदं चोत्प्रेक्षाया धर्मिरूपो विषयः । सि-
द्धासिद्धेत्यत्र विग्रहः पूर्ववत् ॥ धूमेति ॥ तमः, कोकीविरहशुष्मणां धूमस्तोमं शङ्के

 
 
[^
]'फलात्मता'.
[^
]'स्पदार्थाश्च'.
[^
]'विरहसोष्मणाम्'.