This page has not been fully proofread.

३०
 
कुवलयानन्दः ।
 
शब्दयोजनया यथा -
 
-
 
[ अपहुत्यलंकारः ११
 
पद्मे त्वचयने स्मरामि सततं भावो भवत्कुन्तले
नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः ।
इत्युत्स्वप्नवचो निशम्य सरुषा निर्भसितो राधया
कृष्णस्तत्परमेव तद्व्यपदिशन्क्रीडाविटः पातु वः ॥
 
सर्वमिदं विषयान्तर योजने उदाहरणम् । विषयै क्येऽव्यवस्थाभेदेन योजने
 
यथा-
वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया ।
पतिं बुवा सखि ततः प्रबुद्धास्मीत्यपूरयत् ॥ ३० ॥
कैतवापद्धतिर्व्यक्ती व्याजाद्यैर्निहुतेः पदैः ।
निर्यान्ति मरनाराचाः कान्त दृक्पातकैतवात् ॥ ३१ ॥
 

 
इदमित्युदाहरणमिति च जात्यभिप्रायेणैकवचनम् । हेमन्तशब्दात् 'तत्र भवः'
इत्यर्थे 'सर्वत्राण् च तलोपश्च' इत्यणि तलोपे च हैमन इति रूपसिद्धिः । प्रजल्प-
नित्युदाहरणे एकस्य वाक्यस्यान्यथा योजनमिह वनेकेषामिति भेदः ॥ शब्द-
योजनयेति ॥ अर्थभेदेऽपि शब्दश्लेषमात्रेणेत्यर्थः ॥ पद्मे इति ॥ क्रीडाया
विटो भोक्ता कृष्णो वो युष्मान् पातु रक्षत्विति संबन्धः । कीदृशः । इत्युत्स्वप्नवचः
स्वप्ने उद्गतमुत्स्वप्नं वचनमर्थात् कृष्णस्यानुभाष्यानूय राधया निर्भसितः संस्तद्वचनं
तत्परमेव राधापरमेव व्यपदिशन्कथयन् । इति किम् । हे पद्मे रमे, त्वन्नयने
सततं स्मरामि । नीले भवत्याः कुन्तले केशपाशे मम भावोऽन्तःकर-
णवृत्तिरूपः मुह्यति मोहं प्राप्नोति । ननु चित्तासङ्गो निवर्त्यतां तत्राह । किं क
रोमि अकिंचित्करोऽस्मि । यतस्ते तव महितैः पूज्यैर्विश्र मैर्विलासैः क्रीतोऽस्मि
मूल्येन गृहीतोऽस्मीति । किंकरोस्मीति क्वचित्पाठः स युक्ततरः । तत्र चास्मीयह-
मर्थकमव्ययम् । अहं किंकरो दासः क्रीतोऽस्मीत्यर्थः । राधापरत्वे तु हे राधे,
इत्यर्थात्संबोधनम् । पद्म पद्मरूपे त्वन्नयने स्मरामीति विशेषः । शेषं पूर्ववत् ।
अत्र रमासंबोध्य कस्तन्नयनस्मरणरूपो न वाक्यार्थोऽपि तु त्वत्संबोध्यकः पद्मरू-
पत्वन्नयनस्मरणरूप इत्यपहवस्तत्परमेव तद्यपदिशन्नित्यनेन प्रकाश्यते । नचा-
त्रार्थस्य रमाराधासाधारणत्वमपि तु पद्म इति लिङ्गवचनश्लिष्टशब्दयोजनैवेति ॥
विषयान्तरेति ॥ विवक्षितविषयभिन्नेत्यर्थः । अवस्था जाग्रत्खप्नादिरूपा ॥
वदन्तीति ॥ पत्यौ भर्तरि सखीधिया सखीभ्रमेण जारवृत्तान्तं स्वकामुकवार्ता
वदन्ती धूर्ता काचित्पतिं बुद्ध्वा सखीत्यादिवाक्यशेषमपूरयत्पूरितवती । सखीति
पुनः संबोधनमप्रतार्यतासूचनाय । तत उक्तवृत्तान्तानन्तरं प्रबुद्धा जागरणवती ।
अत्र नासौ जाग्रदवस्थावृत्तान्तः किंतु स्वाप्निक इत्यवस्थाभेदयोजनयापह्नवः सखी-
त्यादिवाक्यशेषेण प्रकाश्यते ॥ ३० ॥ कैतवापह्नुतिरिति लक्ष्य निर्देशः । व्याजायै-
१ 'व्यक्ते व्याजाद्यैर्निह्नवे'.