This page has been fully proofread twice.

शब्दयोजनया यथा --
 
पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले
नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः ।
इत्युत्स्वप्नवचो निशम्य सरुषा निर्भत्सितो राधया
कृष्णस्तत्परमेव तद्व्यपदिशन्क्रीडाविटः पातु वः ॥
 
सर्वमिदं विषयान्तरयोजने उदाहरणम् । विषयैक्येऽव्यवस्थाभेदेन योजने यथा --
 
वदन्ती जारवृत्तान्तं पत्यौ धूर्तां सखीधिया ।
पतिं बुध्वा सखि ततः प्रबुद्धास्मीत्यपूरयत् ॥ ३० ॥
 
कैतवापह्नुतिर्व्य[^१]क्तौ व्याजाद्यैर्निह्नुतेः पदैः ।
निर्यान्ति स्मरनाराचाः कान्तदृक्पातकैतवात् ॥ ३१ ॥
 
[commentary]
 
इदमित्युदाहरणमिति च जात्यभिप्रायेणैकवचनम् । हेमन्तशब्दात् 'तत्र भवः' इत्यर्थे 'सर्वत्राण् च तलोपश्च' इत्यणि तलोपे च हैमन इति रूपसिद्धिः । प्रजल्पन्नित्युदाहरणे एकस्य वाक्यस्यान्यथा योजनमिह त्वनेकेषामिति भेदः ॥ शब्दयोजनयेति ॥ अर्थभेदेऽपि शब्दश्लेषमात्रेणेत्यर्थः ॥ पद्मे इति ॥ क्रीडाया विटो भोक्ता कृष्णो वो युष्मान् पातु रक्षत्विति सम्बन्धः । कीदृशः । इत्युत्स्वप्नवचः स्वप्ने उद्गतमुत्स्वप्नं वचनमर्थात्कृष्णस्यानुभाष्यानूद्य राधया निर्भत्सितः संस्तद्वचनं तत्परमेव राधापरमेव व्यपदिशन्कथयन् । इति किम् । हे पद्मे रमे, त्वन्नयने सततं स्मरामि । नीले भवत्याः कुन्तले केशपाशे मम भावोऽन्तःकरणवृत्तिरूपः मुह्यति मोहं प्राप्नोति । ननु चित्तासङ्गो निवर्त्यतां तत्राह । किं करोमि अकिंचित्करोऽस्मि । यतस्ते तव महितैः पूज्यैर्विश्रमैर्विलासैः क्रीतोऽस्मि मूल्येन गृहीतोऽस्मीति । किंकरोस्मीति क्वचित्पाठः स युक्ततरः । तत्र चास्मीत्यहमर्थकमव्ययम् । अहं किंकरो दासः क्रीतोऽस्मीत्यर्थः । राधापरत्वे तु हे राधे, इत्यर्थात्सम्बोधनम् । पद्मे पद्मरूपे त्वन्नयने स्मरामीति विशेषः । शेषं पूर्ववत् । अत्र रमासम्बोध्यकस्तन्नयनस्मरणरूपो न वाक्यार्थोऽपि तु त्वत्संबोध्यकः पद्मरूपत्वन्नयनस्मरणरूप इत्यपह्नवस्तत्परमेव तद्व्यपदिशन्नित्यनेन प्रकाश्यते । नचात्रार्थस्य रमाराधासाधारणत्वमपि तु पद्मे इति लिङ्गवचनश्लिष्टशब्दयोजनैवेति ॥ विषयान्तरेति ॥ विवक्षितविषयभिन्नेत्यर्थः । अवस्था जाग्रत्स्वप्नादिरूपा ॥ वदन्तीति ॥ पत्यौ भर्तरि सखीधिया सखीभ्रमेण जारवृत्तान्तं स्वकामुकवार्तां वदन्ती धूर्ता काचित्पतिं बुद्ध्वा सखीत्यादिवाक्यशेषमपूरयत्पूरितवती । सखीति पुनः सम्बोधनमप्रतार्यतासूचनाय । तत उक्तवृत्तान्तानन्तरं प्रबुद्धा जागरणवती । अत्र नासौ जाग्रदवस्थावृत्तान्तः किन्तु स्वाप्निक इत्यवस्थाभेदयोजनयापह्नवः सखीत्यादिवाक्यशेषेण प्रकाश्यते ॥ ३० ॥ कैतवापह्नुतिरिति लक्ष्यनिर्देशः । व्याजाद्यै-
 
[^१] 'व्यक्ते व्याजाद्यैर्निह्नवे'.