This page has not been fully proofread.

अपहुत्यलंकारः ११ ] अलंकारचन्द्रिकासहितः ।
 
यदाह-
CHOCHONNING
 
२९
 
न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
 
इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमा मता ॥ २९ ॥ इति ॥
छेकापह्नुतिरन्यस्य शङ्कातस्तथ्य॑निह्नवे ।
प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥ ३० ॥
 
कस्यचित्कंचित्प्रति रहस्योक्तावन्येन श्रुताया मुक्तेस्तात्पर्यान्तरवर्णनेन तथ्य-
निह्नवे छेकापह्नुतिः । यथा नायिकया नर्मसखीं प्रति प्रजल्पन्मत्पदे लग्न इति
स्वनायकवृत्तान्ते निगद्यमाने तदाकर्ण्य कान्तः किमिति शङ्कितवतीमन्यां
प्रति नूपुर इति निह्नवः ।
 
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् ।
नागरिकः किं मिलितो नहि नहि सखि हैमनः पवनः ॥
इदमर्थयोजनया तथ्यनिह्नवे उदाहरणम् ।
 
-
 
प्रसक्तिपूर्वकत्वादिति भावः । मेने इत्यस्वरसोद्भावनम् । तद्वीजं तूपमाबोधकस्ये
वादेरसत्वेऽपि तदुपगमे रूपकस्याप्युपमात्वं स्यादिति स्पष्टमेव ॥ २९ ॥
छेकापह्नुतिरिति ॥ छेको विदग्धस्तत्कृतापह्नुतिश्छेकापडतिरिति लक्ष्य निर्देशो
वाक्यान्यथायोजन हेतुकः शङ्किततात्त्विक वस्तुनिषेध इति लक्षणम् । अन्यस्य
शङ्कात इत्यन्यशङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेशः । संतापात्स्नातीतिवत् ।
अत्रच शुद्धापह्नुतिवारणायाद्यं विशेषणम् । 'मम किल श्रुतिमाह तदर्थिकाम्'
इत्यधिकताद्रूप्यरूपकवारणाय शङ्कितेति । नचानेनैव शुद्धापह्नुतिवारणाद्वाक्येत्या-
दि व्यर्थमिति वाच्यम् । 'कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे । सभृङ्गं
पद्ममाघ्रासीर्वारितापि मयाधुना ॥ इति व्याजोक्तावतिप्रसङ्गवारकत्वेन तत्सार्थ-
क्यात् । यद्वक्ष्यति – छेकापह्नुतेरस्याश्चायं विशेषो यत्तस्यां वचनस्यान्यथानयने
नापचवः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति तथ्यनिहवे इति तात्वि-
कनिषेधे इत्यर्थः । नूपुरो मञ्जीरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । नर्मस-
खी क्रिडासखी । अत्र कान्तपरायाः 'प्रजल्पन्मत्पदे लग्नः' इत्युक्तेर्नूपुरतात्पर्य -
कत्ववर्णनेन कान्तत्वापहवो मुख्यो नूपुराभेदप्रतिपत्तिस्तु तदङ्गमिति बोध्यम् ॥
सीत्कारमिति ॥ सीत्कारं तदनुकारिमुखध्वनिं शिक्षयति, अधरमधरोष्ठं व्रणयति
व्रणोऽस्यास्तीति व्रणी व्रणिनं करोतीत्यर्थे 'तत्करोति तदाचष्टे' इति णिच् । तथा
रोमाञ्चं तनोति विस्तारयतीति वाक्यत्रयं नागरिकाभिप्रायेण प्रियसखीं प्रति कया-
प्युक्तं तदाकर्ण्य नागरिकः किं मिलित इति शङ्कितवतीमन्यां प्रति तच्छङ्कानिवृत्तये
नहीत्यादिना हैमन्तिकपवनपरत्ववर्णनेन तात्विकस्य नागरिकस्यापह्नवः । सी-
त्कार शिक्षादिकर्तृत्वस्य नागरिकइव पवनेऽपि सत्त्वात् । तदाह
- अर्थयोजन-

येति ॥ विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसंबन्धित्ववर्णन येत्यर्थः ।
 
-
 
१ 'स्तस्य निहवे'.