This page has been fully proofread twice.

यदाह --
 
न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमा मता ॥ २९ ॥ इति ॥
 
छेकापह्नुतिरन्यस्य शङ्कातस्तथ्य[‌‌^१]निह्नवे ।
प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥ ३० ॥
 
कस्यचित्कंचित्प्रति रहस्योक्तावन्येन श्रुतायामुक्तेस्तात्पर्यान्तरवर्णनेन तथ्यनिह्नवे छेकापह्नुतिः । यथा नायिकया नर्मसखीं प्रति प्रजल्पन्मत्पदे लग्न इति स्वनायकवृत्तान्ते निगद्यमाने तदाकर्ण्य कान्तः किमिति शङ्कितवतीमन्याम्प्रति नूपुर इति निह्नवः ।
 
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् ।
नागरिकः किं मिलितो नहि नहि सखि हैमनः पवनः ॥
 
इदमर्थयोजनया तथ्यनिह्नवे उदाहरणम् ।
 
[commentary]
 
प्रसक्तिपूर्वकत्वादिति भावः । मेने इत्यस्वरसोद्भावनम् । तद्बीजं तूपमाबोधकस्येवादेरसत्वेऽपि तदुपगमे रूपकस्याप्युपमात्वं स्यादिति स्पष्टमेव ॥ २९ ॥
छेकापह्नुतिरिति ॥ छेको विदग्धस्तत्कृतापह्नुतिश्छेकापह्नुतिरिति लक्ष्यनिर्देशो वाक्यान्यथायोजनहेतुकः शङ्किततात्त्विकवस्तुनिषेध इति लक्षणम् । अन्यस्य शङ्कात इत्यन्यशङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेशः । सन्तापात्स्नातीतिवत् । अत्रच शुद्धापह्नुतिवारणायाद्यं विशेषणम् । 'मम किल श्रुतिमाह तदर्थिकाम्' इत्यधिकताद्रूप्यरूपकवारणाय शङ्कितेति । नचानेनैव शुद्धापह्नुतिवारणाद्वाक्येत्यादि व्यर्थमिति वाच्यम् । 'कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे । सभृङ्गं पद्ममाघ्रासीर्वारितापि मयाधुना ॥’ इति व्याजोक्तावतिप्रसङ्गवारकत्वेन तत्सार्थक्यात् । यद्वक्ष्यति --छेकापह्नुतेरस्याश्चायं विशेषो यत्तस्यां वचनस्यान्यथानयने नापह्नवः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति तथ्यनिह्नवे इति तात्विकनिषेधे इत्यर्थः । नूपुरो मञ्जीरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । नर्मसखी क्रिडासखी । अत्र कान्तपरायाः 'प्रजल्पन्मत्पदे लग्नः' इत्युक्तेर्नूपुरतात्पर्यकत्ववर्णनेन कान्तत्वापह्नवो मुख्यो नूपुराभेदप्रतिपत्तिस्तु तदङ्गमिति बोध्यम् ॥ सीत्कारमिति ॥ सीत्कारं तदनुकारिमुखध्वनिं शिक्षयति, अधरमधरोष्ठं व्रणयति व्रणोऽस्यास्तीति व्रणी व्रणिनं करोतीत्यर्थे 'तत्करोति तदाचष्टे' इति णिच् । तथा रोमाञ्चं तनोति विस्तारयतीति वाक्यत्रयं नागरिकाभिप्रायेण प्रियसखीं प्रति कयाप्युक्तं तदाकर्ण्य नागरिकः किं मिलित इति शङ्कितवतीमन्यां प्रति तच्छङ्कानिवृत्तये नहीत्यादिना हैमन्तिकपवनपरत्ववर्णनेन तात्विकस्य नागरिकस्यापह्नवः । सीत्कार शिक्षादिकर्तृत्वस्य नागरिक इव पवनेऽपि सत्त्वात् । तदाह -- अर्थयोजनयेति ॥ विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसम्बन्धित्ववर्णनयेत्यर्थः ।
 
[‌‌^१] 'स्तस्य निह्नवे'.