2023-02-17 12:58:41 by ambuda-bot
This page has not been fully proofread.
कुवलयानन्दः । [ अपहुत्यलंकार: ११
भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे ।
तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥ २९ ॥
अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्यादृजुबुद्ध्या
सख्या ज्वरः किमिति पृष्टे न सखि स्मर इति तत्त्वोत्त्या भ्रान्तिवारणं कृतम् ।
यथावा-
२८
नागरिक समधिकोन्नति रिह महिषः कोऽयमुभयतःपुच्छः ।
नहि नहि करिकलभोऽयं झुण्डादण्डोऽयमस्य न तु पुच्छम् ॥
इदं संभवान्तिपूर्विकायां भ्रान्तापह्नुतावुदाहरणम् ॥
कल्पितभ्रान्तिपूर्वा यथा
जटा नेयं वेणीकृतकचकलापो न गरलं
गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् ।
इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा
पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि ॥
अत्र कल्पितभ्रान्तिर्जटा नेयमित्यादि निषेधमात्रोन्नेया पूर्वप्रश्नाभावात् ।
दण्डी त्वत्र तत्त्वाख्यानोपमेत्युपमाभेदं मेने ।
पभेदादित्यर्थः॥२८॥ पूर्वापह्नुतिवच्छुद्धापह्नुतिवत् द्वैविध्यं शुद्धपर्यस्तापह्नुतिर्हेतुपर्य-
स्तापह्नुतिरित्येवं द्विप्रकारत्वम् ॥ भ्रान्तापह्नुतिरिति ॥ अन्यस्य प्रकृतस्य भ्रान्ति-
वारणे । वार्यतेऽनेनेति वारणम् । तथाच भ्रान्तिवारके तत्त्वाख्याने सतीत्यर्थः ।
भ्रान्तं भ्रमः । भावे क्तः । भ्रान्त्यपह्नुतिरित्यर्थः । एवंच तत्त्वकथन हेतुकभ्रान्ति-
विषय निषेधो भ्रान्तापह्नुतिरिति लक्षणं बोध्यम् । तस्य तापकारित्वरूपस्मरवृत्ता-
न्तस्य ॥ नागरिकेति ॥ नगरे भवो नागरिकस्तं प्रति ग्रामीणस्य प्रश्नः । सम-
घिका पश्वन्तरेभ्य उन्नतिरुचता यस्यैवंभूत उभयतो मुखपृष्ठभागयोः पुच्छं य-
स्यैवंभूतश्च कोऽयं महिष इति । नहिनहीत्युत्तरम् । महिष इत्यनुषज्यते । अयं
करिकलभः करिशावकः । 'कलभः करिशावकः' इति कोशात्कलभ इत्येतावतैव
सिद्धे करिपदमुत्कृष्ट करिबोधार्थम् । अयमस्य शुण्डादण्डो न तु पुच्छमिति ।
पुच्छ इति पाठोऽप्यर्धर्चादित्वात्साधुरेव । अप्रयुक्तत्वं तु तत्र परं विचार्य मिति
पूर्वोदाहरणे संदेहरूपभ्रान्तिविषयज्वरत्वापह्नवः । ज्वरः किमिति प्रश्नेन तद्वि-
षयसंदेहावगमात् । इह तु महिषत्वनिश्चयरूपभ्रान्तिविषयस्य महिषत्वस्येति ततो
भेदः ॥ जटेति ॥ विरहिण्या इयमुक्तिः । हे कुसुमशर, पुरारातेर्हरस्य भ्रान्त्या
मां किं कुतः प्रहरसि पीडयसि । यतो नेयं जटा किंतु वेणीकृतः अवेणी वेणी
संपद्यते तथा कृतः कचानां कलापः, तथा गले गरलं नैतदपि त्वियं कस्तूरी,
एवं शिरसि नैषा शशिलेखा किंतु कुसुमम्, तथा इयमङ्गे भूतिर्भस्म न भवति
परंतु प्रियविरहाजन्म यस्यैवंभूतो धवलिमा पाण्डिमेति । 'अवर्ज्यो बहुव्रीहियं-
घिकरणो जन्माद्युत्तरपदः' इति वामनसूत्राध्यधिकरणोऽपि बहुव्रीहिर्न दुष्टः ॥
कल्पितेति ॥ कुसुमशरे उत्प्रेक्षितेत्यर्थः ॥ निषेधमात्रोन्नेयेति ॥ निषेधस्य
।