This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [ अपहुत्यलंकार: ११
भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे ।
 

तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥ २९ ॥

 
अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्यादृजुबुद्ध्या
सख्या ज्वरः किमिति पृष्टे न सखि स्मर इति तत्त्वोत्क्त्या भ्रान्तिवारणं कृतम् ।
 

यथावा -
२८
 
-
 
नागरिक समधिकोन्नति रिह महिषः कोऽयमुभयतःपुच्छः ।

नहि नहि करिकलभोऽयं झु शुण्डादण्डोऽयमस्य न तु पुच्छम् ॥

 
इदं संसम्वावद्भ्रान्तिपूर्विकायां भ्रान्तापह्नुतावुदाहरणम् ॥
कल्पितभ्रान्तिपूर्वा यथा
 

 
जटा नेयं वेणीकृतकचकलापो न गरलं
 

गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् ।

इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा
 

पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि ॥

 
अत्र कल्पितभ्रान्तिर्जटा नेयमित्यादि निषेधमात्रोन्नेया पूर्वप्रश्नाभावात् ।
दण्डी त्वत्र तत्त्वाख्यानोपमेत्युपमाभेदं मेने ।
 

 
[commentary]
 
पभेदादित्यर्थः ॥२८॥ पूर्वापह्नुतिवच्छुद्धापह्नुतिवत् द्वैविध्यं शुद्धपर्यस्तापह्नुतिर्हेतुपर्य-
स्तापह्नुतिरित्येवं द्विप्रकारत्वम् ॥ भ्रान्तापह्नुतिरिति ॥ अन्यस्य प्रकृतस्य भ्रान्ति-
वारणे । वार्यतेऽनेनेति वारणम् । तथाच भ्रान्तिवारके तत्त्वाख्याने सतीत्यर्थः ।

भ्रान्तं भ्रमः । भावे क्तः । भ्रान्त्यपह्नुतिरित्यर्थः । एवंच तत्त्वकथन हेतुकभ्रान्ति-
विषय निषेधो भ्रान्तापह्नुतिरिति लक्षणं बोध्यम् । तस्य तापकारित्वरूपस्मरवृत्ता-
न्तस्य ॥ नागरिकेति ॥ नगरे भवो नागरिकस्तं प्रति ग्रामीणस्य प्रश्नः । सम-
घिका पश्वन्तरेभ्य उन्नतिरुच्चता यस्यैवंवम्भूत उभयतो मुखपृष्ठभागयोः पुच्छं य-
स्यैवंवम्भूतश्च कोऽयं महिष इति । नहिनहीत्युत्तरम् । महिष इत्यनुषज्यते । अयं
करिकलभः करिशावकः । 'कलभः करिशावकः' इति कोशात्कलभ इत्येतावतैव
सिद्धे करिपदमुत्कृष्ट करिबोधार्थम् । अयमस्य शुण्डादण्डो न तु पुच्छमिति ।

पुच्छ इति पाठोऽप्यर्धर्चादित्वात्साधुरेव । अप्रयुक्तत्वं तु तत्र परं विचार्य मिति
पूर्वोदाहरणे संसन्देहरूपभ्रान्तिविषयज्वरत्वापह्नवः । ज्वरः किमिति प्रश्नेन तद्वि-
षयसंसन्देहावगमात् । इह तु महिषत्वनिश्चयरूपभ्रान्तिविषयस्य महिषत्वस्येति ततो
भेदः ॥ जटेति ॥ विरहिण्या इयमुक्तिः । हे कुसुमशर, पुरारातेर्हरस्य भ्रान्त्या
मां किं कुतः प्रहरसि पीडयसि । यतो नेयं जटा किंकिन्तु वेणीकृतः अवेणी वेणी
सं
सम्पद्यते तथा कृतः कचानां कलापः, तथा गले गरलं नैतदपि त्वियं कस्तूरी,
एवं शिरसि नैषा शशिलेखा किंकिन्तु कुसुमम्, तथा इयमङ्गे भूतिर्भस्म न भवति
परं

परन्
तु प्रियविरहाज्जन्म यस्यैवंवम्भूतो धवलिमा पाण्डिमेति । 'अवर्ज्यो बहुव्रीहियं-
घि
र्व्यधिकरणो जन्माद्युत्तरपदः' इति वामनसूत्राध्द्व्यधिकरणोऽपि बहुव्रीहिर्न दुष्टः ॥
कल्पितेति ॥ कुसुमशरे उत्प्रेक्षितेत्यर्थः ॥ निषेधमात्रोन्नेयेति ॥ निषेधस्य