This page has not been fully proofread.

अपहुत्यलंकारः ११ ] अलंकारचन्द्रिकासहितः ।
 
छायामृगः शशक इत्यतिपामरोक्ति-

स्तेषां कथंचिदपि तत्र हि न प्रसक्तिः ॥
 
२७
 

 
अत्र चन्द्रमध्ये मन्थनकालिकमन्दरशिलासंघट्टनव्रणकिणस्यैव छायादीनां
सं
सम्भवो नास्तीति छायात्वाद्यपह्नवः पामरवचनत्वोपन्यासेनाविष्कृतः ॥ २७ ॥
 

 
अन्यत्र तस्यारोपार्थः पर्यस्ता पहुपह्नुतिस्तु सः ।
 

नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ २८ ॥
 

 
यत्र क्वचिद्वस्तुनि तदीयधर्मनिह्नवः, अन्यत्र वर्णनीये वस्तुनि तस्य धर्म-
स्यारोपार्थः स पर्यस्तापह्नुतिः । यथा चन्द्रे चन्द्रत्वनिह्नवो वर्णनीये मुखे तदा-
रोपार्थः ॥ यथावा -
-
 
हालाहलो नैव विषं विषं रमा
 

जनाः परं व्यत्ययमत्र मन्वते ।

निपीय जागर्ति सुखेन तं शिवः

स्पृशन्निमां मुह्यति निद्रया हरिः ॥
 

 
पूर्वोदाहरणे हेतूक्तिर्नास्ति अत्र तु सास्तीति विशेषः । ततश्च पूर्वापह्नुति-
वदत्रापि द्वैविध्यमपि द्रष्टव्यम् ॥ २८ ॥
 

 
[commentary]
 
'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके ।' इत्यमरः ॥ नास्तीतीति ॥ इति
हेतोरित्यर्थः ॥ २७ ॥ पर्यस्तापह्नुतिमाह - अन्यत्रेति ॥ सः अपह्नवः । तथाच
तदारोपार्थस्तस्यापह्नव इति लक्षणम् । निषेधस्य च न खाधिकरणे प्रतियोग्या-
रोपार्थत्व संसम्भवो न वा स्वाधिकरणे स्वारोप इत्यर्थसिद्धमेवारोपस्यान्याधिकरणत्व-
मन्यत्रेत्यनेनोक्तम् । अतएव पर्यस्तापह्नुतिरित्युच्यते । पर्यस्ता आरोपविपरीता
आरोपव्यधिकरणेति तदर्थात् । नच चन्द्रे चन्द्रत्वनिषेधस्य कथं मुखे तदारोपा-
र्थत्वमिति वाच्यम् । आरोपदार्ढ्यसंपादकत्वेन निषेधस्य तदर्थताया अनुभवसि
द्धत्वात् । अतएव दृढारोपरूपकमेवेदं नापह्नुतिरिति प्राचां सिद्धान्तस्तदनुसारे-
णैव च चित्रमीमांसायां 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इत्यपहुतिलक्ष-
णमुक्तम् । इह त्वलंकाररत्नाकराद्यनुसारेणायं प्रभेद उपदर्शितसामान्यलक्षणा-
मित्
भितप्रायेणापतित्वेनोक्त इति निरवद्यम् ॥ हालाहल इति ॥ हालाहलो विषं
नैव भवति किंकिन्तु रमा लक्ष्मीर्विषम् । जनाः परं केवलमत्रास्मिन्विषये व्यत्ययं
वैपरीत्यं मन्वतेऽभ्युपगच्छन्ति । कुतस्तत्राह । यस्माच्छिवस्तं हालाहलं निपीय
सुखेन जागर्ति । हरिस्तु इमां रमां स्पृशन्सन् निद्रया मुह्यति । स्मरनिति
न्निति पाठे स्मरन्नपि मुह्यति । किमु स्पृशन्नित्यर्थः । तथाच रमाया विषरूपत्वे मोहज-
नकत्वं हेतुः, हालाहलस्य तत्त्वापह्नवे च जागरसुखप्रयोजकत्वमिति बोध्यम् ।
'हालाहलो विषे' इति विश्वः । अत्र स्पृशन्मुह्यतीति कार्यकारणयोः पौर्वापर्यवि-
पर्ययरूपातिशयोक्तिरलंकारः । सा हेतूक्तिः ॥ ततश्चेति ॥ हेतूक्तितदनुक्तिरू-

 
१ 'पह्नुतिश्च सा'.