2023-02-17 12:58:41 by ambuda-bot
This page has not been fully proofread.
२६
कासोत्प्रेक्षितधर्मान्तरस्यापि
रीकत्वारोपफलकस्तदीयधर्मस्य
कुवलयानन्दः ।
[ अपहुत्यलंकारः ११
निहवः शुद्धापह्नुतिः । यथा चन्द्रे वियन्नदीपुण्ड.
चन्द्रत्वस्यापह्नवः ॥ यथावा-
अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्क परे मेनिरे
सारङ्गं कतिचिच्च संजगदिरे भूच्छायमैच्छम्परे ।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥
अत्रौत्प्रेक्षिकधर्माणामप्यपह्नवः परपक्षत्वोपन्या सादर्थसिद्धः ॥ २६ ॥
स एव युक्तिपूर्वश्चेदुच्यते हेत्वपह्नुतिः ।
नेन्दुस्तीत्रो न निश्यर्क: सिन्धोरौर्वोऽयमुत्थितः ॥ २७ ॥
अत्र चन्द्र एव तीव्रत्वनैशत्वयुक्तिभ्यां चन्द्रत्वसूर्यत्वापहवो वडवानलत्वा.
रोपार्थः ॥ यथावा-
मन्थानभूमिधरमूलशिलासहस्र-
संघट्टनव्रणकिणः स्फुरतीन्दुमध्ये ।
>
पुण्डरीकेति ॥ 'पुण्डरीकं सिताम्भोजम्' इत्यमरः । एवंच सरोरुहपदं विशेष्य.
परमिति भावः ॥ अङ्कमिति ॥ इन्दौ दलितस्य स्फुटितस्येन्द्रनीलमणेः शकल-
वच्छयामं यद्दरीदृश्यते तत्केऽपि कवयोऽङ्कं कलङ्कं शशङ्करे शतवन्तः, परे
ऽन्ये जलनिधेः पङ्कं मेनिरे, कतिचित्पुनः सारङ्गं संजगदिरे अब्रुवन् परे इतरे
भुवो भूमेश्छाया भूच्छायं ऐच्छन् । 'विभाषा सेनासुराच्छाया- 'इत्यादिना क्लीब-
त्वम् । वयं तु सान्द्रं घनं निशि रात्रौ पीतम् अतएव कुक्षिस्थमन्धतमसं गाढ-
ध्वान्तमाचक्ष्महे ब्रूमह इत्यन्वयः । औत्प्रेक्षिका उत्प्रेक्षामात्रविषयाः कलङ्काद-
यः । अपिना स्वाभाविकस्य भूच्छायत्वस्य समुच्चयोऽर्थसिद्ध इति । 'नायं सुधां-
शुः' इत्यत्र नेतिशब्दोपात्तत्वाच्छाब्दः । इहतु परमतत्वोत्कीर्तनेन स्वानभिमत-
त्वसूचनादर्थगम्य इत्यर्थः । एकत्रानेकापहवरूपतयाप्यत्र वैचित्र्यं बोध्यम्
॥ २६ ॥ हेत्वपह्नुतिमाह – स एवेति ॥ शुद्धापहव एवेत्यर्थः ॥ युक्तिपूर्व
इति ॥ योज्यते साध्यमनेनेति युक्तिर्हेतुस्तत्पूर्वस्तत्सहित इत्यर्थः । तथाच शुद्धा-
पह्नवलक्षण एवानुक्त निमित्त इत्यस्य स्थाने उक्त निमित्त इत्युक्तौ हेत्वपह्नुतिलक्ष-
णं संपद्यत इति भावः । नेन्दुरित्यादि विरहाकुलोक्तिः । तीव्रो दारुणो यतोऽतो
नेन्दुः । निशि रात्रौ सत्त्वान्नार्क: । 'और्वस्तु वाडवो वडवानलः' इत्यमरः ॥
नैशत्वेति ॥ निशि भवो नैशस्तत्त्वमित्यर्थः । अत्रापि चन्द्रत्वं स्वाभाविको
धर्मः । सूर्यत्वं त्वौत्प्रेक्षिकमिति बोध्यम् ॥ मन्थानेति ॥ मन्थानो मन्थनद-
ण्डः स चासौ भूमिधरः पर्वतो मन्दरस्तस्य मूलभारो यच्छिलासहस्रं तेन संघ-
हनायो व्रणस्तस्य किणश्चिह्नमिन्दुमध्ये स्फुरति प्रकाशते । छाया भूमेः । मृगो
हरिणः । शशकः शशः इत्येषा अतिपामराणां मूर्खतमानामुक्तिः । हि यस्मात्तेषां
छायादीनां तत्रेन्दुमध्यभागे कथंचिदपि केनापि प्रकारेण प्रसक्तिनीस्तीत्यन्वयः ।
-