This page has been fully proofread once and needs a second look.

अपहृत्यलंकारः ११
 
शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिन्हवः ।
नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २६ ॥
 
वर्णनीये वस्तुनि तत्सदृशधर्मारोपफलकस्तदीयधर्मनिह्नवः कविमतिवि-
 
[commentary]
 
यन्त्रमेकरज्जुसम्बद्धघटमालारूपम् । भाषायां 'राहाट' इति प्रसिद्धम् ॥ कल्पितेति ॥ घटीयन्त्रसम्बन्धिनोर्ज्येष्ठकनिष्ठयोः कोट्योरप्रसिद्धेरिति भावः ॥ २४ ॥ २५ ॥
इत्यलंकारचन्द्रिकायां स्मृतिभ्रान्तिसन्देहप्रकरणम् ॥ ८ ॥ ९ ॥ १० ॥
 
अथापह्नुतिः । तत्र तावदभेदप्रतिपत्तिनिरूपिताङ्गाङ्गित्वान्यतरवान्निषेधोऽपहु-तिरित्यपह्नुतिसामान्यलक्षणम् । निषेधश्च नञादिसत्त्वे वाच्यः । क्वचित्तु तदभा-वात्कैतवादिपदैः परमतत्वोपन्यासादिभिश्च व्यङ्ग्यः । तथा क्वचिदभेदप्रतिपत्ति-समानाधिकरणः क्वचित्तु तद्व्यधिकरण इति विवेकः । एवमभेदः क्वचिदारोप्यमाणः क्वचित्तु स्वाभाविकः । एवं तत्प्रतिपत्तिरपि क्वचिद्यञ्जनया प्रायशस्तु वाच्यवृत्त्येति बोध्यम् ।निषेधोऽपह्नुतिरित्येतावदुक्तौ 'न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः' इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालंकारेऽतिव्याप्तिरतोऽभे-दप्रतिपत्तिर्निरूपितेत्यादिविशेषणमुपात्तम् । तत्र हि युद्धप्रवृत्तं कितवं प्रति युद्धे
द्यूतत्वाभावो निर्ज्ञातोऽपि कीर्त्यमानो द्यूत एव तव प्रागल्भ्यं न तु युद्धे इत्युपहासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गम् तस्यास्तदुपन्यासं विनापि सिद्धत्वात् । नाप्यङ्गिभूतः । निर्ज्ञातत्वेन तदुपायानपेक्षणादिति तद्वारणम् । अभेदप्रतिपत्तिनिरूपिताङ्गित्वमात्रोक्तौ शुद्धापह्नुतिहेव- पह्नुतिपर्यस्तापह्नुतिकैतवापह्नुतिष्वव्याप्तिः । तत्र सर्वत्र 'नायं सुधांशुः' इत्यादेर्निषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन तदङ्गतयाङ्गित्वाभावात् ।अभेदप्रतिपत्तिनिरूपिताङ्गत्वमात्रोक्तौ च भ्रान्तापह्नुतिच्छेकापह्नुत्योरव्याप्तिः । तयोर्भ्रान्तिशङ्कानिवारणरूपनिषेधस्य प्राधान्येनाभेदप्रतिपत्त्यङ्गत्वाभावात् ।अतस्तदन्यतरवत्त्वनिवेशः । तदाहुः -- 'साम्यायापह्नवो यत्र सा विज्ञेया त्वपह्नुतिः । अपह्नवाय सादृश्यं यस्मिन्नेषाप्यपह्नुतिः ॥' इति । सर्व चैतत्तदुदाहरणव्याख्यानावसरे व्यक्तीभविष्यतीति न प्रपश्चितम् । एवं सामान्यलक्षणं मनसि निधाय शुद्धापह्नुत्यादींस्तद्भेदान्वक्तुमुपक्रमते --
शुद्धापह्नुतिरिति ॥ लक्षणं व्याचष्टे -- वर्णनीय इति ॥ कविमतेर्विकासः स्फूर्तिशालिता । तथा
चोपमेय उपमानारोपफलक उपमेयधर्मवाभिमतनिषेधः शुद्धापह्नुतिरिति लक्षणमिति भावः । अत्र चानुक्तनिमित्तत्वं कैतवादिपदाव्यङ्ग्यत्वं च निषेधविशेषणं वोध्यम् । तेन हेत्वपह्नुतौ कैतवापह्नुतौ च नातिप्रसङ्गः । 'कान्तः किं नहि नूपुरः' इति छेकापह्नुतावुपमेयधर्मस्य कान्तत्वस्य निषेधसत्त्वादतिप्रसङ्गवारणायाद्यं विशेषणम् । तत्र हि न कान्तत्वनिषेधो नूपुरारोपार्थोऽपितु नूपुरारोप एव शङ्कितकान्तत्वनिषेधार्थ इति तद्व्यावृत्तिः ।पर्यस्यापह्नुतिवारणायोपमेयधर्मेत्युक्तम्, तत्रोपमानधर्मस्यैव सुधांशुत्वादेर्निषेध इति नातिव्याप्तिरिति सर्वं सुस्थम् ॥