2023-02-17 12:58:41 by ambuda-bot
This page has not been fully proofread.
२४
कुवलयानन्दः । [ स्मृतिभ्रान्तिसंदेहाः ८-१०
दिव्यानामपि कृतविस्मयां पुरस्ता-
दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उगीय श्रियमिव कांचिदुत्तरन्ती-
मस्मार्षीजलनिधिमन्थनस्य शौरिः ॥
पूर्वत्र स्मृतिमदुदाहरणे सहशस्यैव स्मृतिरत्र सदृशलक्ष्मीस्मृतिपूर्वकं त-
त्संबन्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेदः ।
पलाशर्मुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥
अत्रान्योन्यविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः ।
जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः ।
किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥
पूर्वोदाहृतसंदेहोऽप्रसिद्ध कोटिकोऽयं तु कल्पितकोटिक इति भेदः ॥२४॥२५॥
जातिविशेषः । भ्रान्तित्वं विशेष्यावृत्तिप्रकारकज्ञानत्वम् । संदेहत्वं तु निश्चयभि-
नत्वे सति संभावनाभिन्नज्ञानत्वं पारिभाषिकम् । स्मृतिभ्रान्त्यादिवारणाय सत्य-
न्तम् । उत्प्रेक्षावारणाय संभावनाभिन्नेति । चमत्कारित्वं पुनरखिलालंकारसाधारणं
लक्षणत्रयेऽपि निवेशनीयम् । तेन स घट इति स्मृताविदं रजतमिति भ्रान्ता-
वयं स्थाणुः पुरुषो वेति संशये नातिप्रसङ्ग इति ध्येयम् । गाहते आकलयति ।
स्मरतीति यावत् । सादृश्यान्निबध्यमानैरिति चमत्कारित्वोपलक्षकम् । न त्वेत-
स्यापि स्वातन्त्र्येण लक्षणे प्रवेशः । सादृश्यामूलकानामपि स्मृत्यादीनां चमत्कारि-
त्वेऽलंकारताया अनिवार्यत्वात्, चमत्कारितैकजीवातुत्वात्तस्याः । अचमत्कारित्वे
तु तेनैव वारणमिति व्यर्थं सादृश्य हेतुकत्व विशेषणम् । न चैतदेवोपादीयतां नतु
चमत्कारित्व विशेषणमिति वाच्यम् । उदाहृतेषु सादृश्यमूलकस्मृत्यादिष्वतिप्रसङ्ग-
वारणार्थं तस्यावश्यकत्वादिति संक्षेपः ॥ दिव्यानामिति ॥ माघे जलक्रीडाव-
र्णनप्रस्तावे पद्यमिदम् । शौरिः श्रीकृष्णोऽम्भस्तो जलादुत्तरन्तीं निर्गच्छन्तीं श्रि-
यमिव श्रीसदृशीं कांचित्पुरस्तादग्रे उद्वीक्ष्य जलनिधिमन्थनस्य अस्मार्षीत्स्मृत-
वान् । 'अधीगर्थ-' इति कर्मणि षष्टी । किंभूताम् । दिवि भवा दिव्यास्तेषां देवा-
नामपि सौन्दर्यातिशयेन कृताश्चर्याम् । तथा स्फुरता अरविन्देन कमलेन चारू
रमणीयो हस्तो यस्यास्तथाभूताम् । तथा चैवंविधनायिकासदृशलक्ष्मीस्मरणात्तत्सं-
बन्धिजलनिघिमन्थनस्मरणमिति भावः । अत्र श्रिय मिवेत्युपमायाः स्मृत्यङ्गत्वा
त्तयोरङ्गाङ्गित्वलक्षणः संकरः ॥ पलाशेति ॥ वक्रिमलौहित्यरूप सादृश्याङ्क्रान्तिः ।
अलिर्भमरः । सोऽपि शुकोऽपि ॥ भ्रान्तिनिबन्धन इति ॥ भ्रान्तिप्रयुक्त
इत्यर्थः ॥ जीवनेति ॥ जीवनं जलं प्राणसंयोगश्च । अथवा जीवन्त्यनेनेति जी-
वनं धनम् । नम्रा अधोमुखा विनीताश्च । उन्नता ऊर्ध्वमुखा उद्धताश्च । घटी-
१ 'कुसुमभ्रान्त्या'.