2023-04-20 05:25:12 by Bharadwajraki
This page has been fully proofread twice.
दिव्यानामपि कृतविस्मयां पुरस्ता-
दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती-
मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥
पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदृशलक्ष्मीस्मृतिपूर्वकं तत्सम्बन्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेदः ।
पलाशमु[^१]कुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥
अत्रान्योन्यविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः ।
जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः ।
किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥
पूर्वोदाहृतसन्देहोऽप्रसिद्धकोटिकोऽयं तु कल्पितकोटिक इति भेदः ॥२४॥२५॥
[commentary]
जातिविशेषः । भ्रान्तित्वं विशेष्यावृत्तिप्रकारकज्ञानत्वम् । सन्देहत्वं तु निश्चयभिनत्वे सति संभावनाभिन्नज्ञानत्वं पारिभाषिकम् । स्मृतिभ्रान्त्यादिवारणाय सत्यन्तम् । उत्प्रेक्षावारणाय संभावनाभिन्नेति । चमत्कारित्वं पुनरखिलालंकारसाधारणं लक्षणत्रयेऽपि निवेशनीयम् । तेन स घट इति स्मृताविदं रजतमिति भ्रान्तावयं स्थाणुः पुरुषो वेति संशये नातिप्रसङ्ग इति ध्येयम् । गाहते आकलयति । स्मरतीति यावत् । सादृश्यान्निबध्यमानैरिति चमत्कारित्वोपलक्षकम् । न त्वेतस्यापि स्वातन्त्र्येण लक्षणे प्रवेशः । सादृश्यामूलकानामपि स्मृत्यादीनां चमत्कारि-त्वेऽलंकारताया अनिवार्यत्वात्, चमत्कारितैकजीवातुत्वात्तस्याः । अचमत्कारित्वे तु तेनैव वारणमिति व्यर्थं सादृश्यहेतुकत्वविशेषणम् । न चैतदेवोपादीयतां नतु चमत्कारित्वविशेषणमिति वाच्यम् । उदाहृतेषु सादृश्यमूलकस्मृत्यादिष्वतिप्रसङ्गवारणार्थं तस्यावश्यकत्वादिति संक्षेपः ॥ दिव्यानामिति ॥ माघे जलक्रीडावर्णनप्रस्तावे पद्यमिदम् । शौरिः श्रीकृष्णोऽम्भस्तो जलादुत्तरन्तीं निर्गच्छन्तीं श्रियमिव श्रीसदृशीं कांचित्पुरस्तादग्रे उद्वीक्ष्य जलनिधिमन्थनस्य अस्मार्षीत्स्मृतवान् । 'अधीगर्थ -' इति कर्मणि षष्टी । किंभूताम् । दिवि भवा दिव्यास्तेषां देवानामपि सौन्दर्यातिशयेन कृताश्चर्याम् । तथा स्फुरता अरविन्देन कमलेन चारू-
रमणीयो हस्तो यस्यास्तथाभूताम् । तथा चैवंविधनायिकासदृशलक्ष्मीस्मरणात्तत्सं-बन्धिजलनिघिमन्थनस्मरणमिति भावः । अत्र श्रिय मिवेत्युपमायाः स्मृत्यङ्गत्वा
त्तयोरङ्गाङ्गित्वलक्षणः संकरः ॥ पलाशेति ॥ वक्रिमलौहित्यरूप सादृश्याद्भ्रान्तिः । अलिर्भमरः । सोऽपि शुकोऽपि ॥ भ्रान्तिनिबन्धन इति ॥ भ्रान्तिप्रयुक्त इत्यर्थः ॥ जीवनेति ॥ जीवनं जलं प्राणसंयोगश्च । अथवा जीवन्त्यनेनेति जीवनं धनम् । नम्रा अधोमुखा विनीताश्च । उन्नता ऊर्ध्वमुखा उद्धताश्च । घटी-
[^१] 'कुसुमभ्रान्त्या'.
दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती-
मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥
पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदृशलक्ष्मीस्मृतिपूर्वकं तत्सम्बन्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेदः ।
पलाशमु[^१]कुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥
अत्रान्योन्यविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः ।
जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः ।
किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥
पूर्वोदाहृतसन्देहोऽप्रसिद्धकोटिकोऽयं तु कल्पितकोटिक इति भेदः ॥२४॥२५॥
[commentary]
जातिविशेषः । भ्रान्तित्वं विशेष्यावृत्तिप्रकारकज्ञानत्वम् । सन्देहत्वं तु निश्चयभिनत्वे सति संभावनाभिन्नज्ञानत्वं पारिभाषिकम् । स्मृतिभ्रान्त्यादिवारणाय सत्यन्तम् । उत्प्रेक्षावारणाय संभावनाभिन्नेति । चमत्कारित्वं पुनरखिलालंकारसाधारणं लक्षणत्रयेऽपि निवेशनीयम् । तेन स घट इति स्मृताविदं रजतमिति भ्रान्तावयं स्थाणुः पुरुषो वेति संशये नातिप्रसङ्ग इति ध्येयम् । गाहते आकलयति । स्मरतीति यावत् । सादृश्यान्निबध्यमानैरिति चमत्कारित्वोपलक्षकम् । न त्वेतस्यापि स्वातन्त्र्येण लक्षणे प्रवेशः । सादृश्यामूलकानामपि स्मृत्यादीनां चमत्कारि
[^१] 'कुसुमभ्रान्त्या'.