This page has been fully proofread twice.

शुद्धो यथा --
 
अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे ।
अधरेऽरुणमविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥ २३ ॥
 
स्मृतिभ्रान्तिसन्देहालंकाराः ८-१०
 
स्यात्स्मृतिभ्रान्तिसन्देहैस्तदङ्कालंकृतित्रयम् ।
पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २४ ॥
अयं प्रम[‍^१]त्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् ।
पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ॥ २५ ॥
 
स्मृतिभ्रान्तिसन्देहै: सादृश्यान्निबध्यमानैः स्मृतिभ्रान्तिमान्सन्देह इति स्मृत्यादिपदाङ्कितमलंकारत्रयं भवति । तच्च क्रमेणोदाहृतम् ॥ यथावा --
 
[commentary]
 
तत्संग्रहः कृतः । तत्र विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते । अधिकरणसप्तमीनिर्दिष्टस्त्वाश्रयः षष्ठ्यादिनिर्दिष्टः संबन्धीति विवेकः । गुरुरित्यस्यार्थकथनं महानिति । 'गुरुर्महति वाच्यवत्' इति विश्वकोशात् । पटुरिति तु तात्पर्यपर्यवसितार्थकथनम् । पटुर्दक्ष इत्यादीत्यादिना कीर्तिविषयेऽर्जुनो धवल इतिवत्पार्थं इत्यर्थान्तरस्य धनुर्विषये भीष्मो भीषण इतिवद्गाङ्गेय इत्यर्थान्तरस्य च संग्रहः । 'भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे' इति विश्वः । क्रोडीकरणादेकवृन्तगतफलद्वयन्यायेन संग्रहात् ॥ अकृशमिति । कपालिनो हरस्य भागधेयं
भाग्यं तत्त्वेनाध्यवसितं पार्वतीस्वरूपं चित्ते आविरस्तु प्रकटीभवत्विति सम्बन्धः । किंभूतम् । कुचयोः कुचविषये अकृशं स्थूलम् । एवमग्रेऽपि । विलनो मध्यः । 'विलग्नो मध्यलग्नयोः' इति विश्वः । विपुलमायतम् । अधरे अधरोष्ठे अरुणमारक्तम् । अरुणाधरमिति पाठस्तु प्रक्रमभङ्गादयुक्तः । चित्ते इति करुणाशालीत्यत्रापि मध्यमणिन्यायेन सम्बध्यते । एवम् 'तुषारास्तापसव्राते तामसेषु च तापिनः । दृगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥’ इत्यादावधिकरणानेकत्वप्रयुक्तः 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षणाम् । गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ ' इत्यादौ सम्बन्धिभेदप्रयुक्तश्चोल्लेखो द्रष्टव्य इति दिक्
 
॥ २३ ॥ इत्यलंकारचन्द्रिकायामुल्लेखप्रकरणम् ॥ ७॥
 
अथ ज्ञानप्राधान्यसाम्यात्स्मृत्यादीनलंकारान् लक्षयति -- स्यादिति ॥ स्मृतिभ्रान्तिसन्देहैर्व्यवहर्तव्यतया हेतुभूतैस्तदङ्कं तेषामङ्कस्तदङ्कः तदङ्को विद्यतेऽस्मिस्तथाभूतम् । मत्वर्थीयाच्प्रत्ययात् । अङ्कश्चिन्हंह्नं संज्ञेति यावत् । तेन तत्संज्ञासंज्ञि-तमित्यर्थः । अलंकृतित्रयं व्यवहारविषयः स्यादिति योजना । एवंच स्मृतित्वभ्रान्तित्वसन्देहत्वानि त्रीणि लक्षणानि । तत्र स्मृतित्वं तावत्स्मरामीत्यनुभवसाक्षिको
 
[‍^१] ’प्रमत्तो मधुपः’
 
.