This page has not been fully proofread.

स्मृतिभ्रान्तिसंदेहाः ८–१० ] अलंकारचन्द्रिकासहितः । २३
 
शुद्धो यथा-
m
 
--
 
अकृशं कुचयोः कृशं विलने विपुलं चक्षुषि विस्तृतं नितम्बे ।

अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥ २३ ॥

 
स्मृतिभ्रान्तिसंसन्देहालंकाराः ८-१०

 
स्यात्स्मृतिभ्रान्तिसंसन्देहैस्तदङ्कालंकृतित्रयम् ।
 

पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २४ ॥

अयं प्रमंत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् ।

पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ॥ २५ ॥
 

 
स्मृतिभ्रान्तिसंदेहै: सादृश्यान्निबध्यमानैः स्मृतिभ्रान्तिमान्संदेह इति

स्मृत्यादि पदाङ्कितमलंकारत्रयं भवति । तच्च क्रमेणोदाहृतम् ॥ यथावा-

तत्संग्रहः कृतः । तत्र विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते । अधिकरणसप्तमी-

निर्दिष्टस्त्वाश्रयः षष्ठ्यादिनिर्दिष्टः संबन्धीति विवेकः । गुरुरित्यस्यार्थकथनं

महानिति । 'गुरुर्महति वाच्यवत्' इति विश्वकोशात् । पटुरिति तु तात्पर्यपर्य-

वसितार्थकथनम् । पटुर्दक्ष इत्यादीत्यादिना कीर्तिविषयेऽर्जुनो धवल इतिवत्पार्थं

इत्यर्थान्तरस्य धनुर्विषये भीष्मो भीषण इतिवद्गाङ्गेय इत्यर्थान्तरस्य च संग्रहः ।

'भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे' इति विश्वः । क्रोडीकरणादेक-

वृन्तगतफलद्वयन्यायेन संग्रहात् ॥ अकृशमिति । कपालिनो हरस्य भागधेयं

भाग्यं तत्त्वेनाध्यवसितं पार्वतीस्वरूपं चित्ते आविरस्तु प्रकटीभवत्विति संबन्धः ।

किंभूतम् । कुचयोः कुचविषये अकृशं स्थूलम् । एवमग्रेऽपि । विलनो मध्यः ।

'विलग्नो मध्यलग्नयोः' इति विश्वः । विपुलमायतम् । अधरे अधरोष्ठे अरुण-

मारक्तम् । अरुणाधरमिति पाठस्तु प्रक्रमभङ्गादयुक्तः । चित्ते इति करुणा-

शालीत्यत्रापि मध्यमणिन्यायेन संबध्यते । एवम् 'तुषारास्तापसत्राते तामसेषु

च तापिनः । दृगन्तास्ताङकाशत्रोर्भूयासुर्मम भूतये ॥" इत्यादावधिकरणानेकत्व-

प्रयुक्तः 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनप-

तिर्धनाकाङ्क्षणाम् । गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले

बहुविधो विधात्रा कृतः ॥' इत्यादौ संबन्धिभेदप्रयुक्तश्चोल्लेखो द्रष्टव्य इति दिक्

॥ २३ ॥ इत्यलंकारचन्द्रिकायामुल्लेखप्रकरणम् ॥ ७॥
 
-
 
-
 

 
-
 
-
 
अथ ज्ञानप्राधान्यसाम्यात्स्मृत्यादीनलंकारान् लक्षयति – स्यादिति ॥ स्मृ-

तिभ्रान्तिसं देहैर्व्यवहर्तव्यतया हेतुभूतैस्तदङ्कं तेषामङ्कस्तदङ्कः तदको विद्यतेऽस्मिं

स्तथाभूतम् । मत्वर्थीयाचप्रत्ययात् । अङ्कचिहं संज्ञेति यावत् । तेन तत्संज्ञासंज्ञि -

तमित्यर्थः । अलंकृतित्रयं व्यवहारविषयः स्यादिति योजना । एवंच स्मृतित्वभ्रा-

न्तित्वसंदेहत्वानि त्रीणि लक्षणानि । तत्र स्मृतित्वं तावत्स्मरामीत्यनुभवसाक्षिको
 
-
 

 
-
 
१ ' प्रमत्तो मधुप : '.