This page has not been fully proofread.

२२
 
कुवलयानन्दः ।
 
[ उल्लेखालंकारः "
 
यथार्ह प्रयोजकम् । रुचिरभिरतिः । अर्थत्वं लिप्सा । स्त्रीभिरित्याधुदाहरणम्
अत्रैक एव राजा सौन्दर्य वितरणपराक्रमशालीति कृत्वा स्त्रीभिरर्थिभिः प्रत्यर्थि
भिश्र रुच्यर्थित्वभयैः कामकल्पतरुकालरूपो दृष्टः । यथावा-
Catatan
 
गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः ।
 
यथास्थितश्च बालाभिर्दृष्टः शौरिः सकौतुकम् ॥
 
अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स्म सोऽयमादिपुरुषोत्तम इति
वृद्धाभिः संसारभीत्या तदभयार्थिनीभिः कृष्णोऽयं मथुरापुरं प्रविशन् दृष्टः
यस्तथा चञ्चलत्वेन प्रसिद्धायाः श्रियोऽपि कामोपचारवैदग्ध्येन नित्यं वल्लभ
सोऽयं दिव्ययुवेति युवतिसमूहैः सोत्कण्ठैर्दृष्टः । बालाभिस्तद्वाह्यगतरूपवेषा
लंकारदर्शनमात्रलालसाभिर्यथास्थितवेषादियुक्तो दृष्ट इति बहुधोल्लेखः
पूर्व: कामत्वाद्यारोपरूपकसंकीर्णः । अयं तु शुद्ध इति भेदः ॥ २२ ॥
 
एकेन बहुधोल्लेखेऽप्यसौ विषयमेदतः ।
गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने ॥ २३ ॥
ग्रहीतृभेदाभावेऽपि विषयभेदाद्वहुधोल्लेखनात् । असावुल्लेखः । उदाहरणं है
षसंकीर्णम् । वचोविषये महान्पटुरित्यादिवगृहस्पतिरित्याद्यर्थान्तरस्यापि को
डीकरणात् ।
 
त्यत्त्वद्वाजिराजिप्रसरखुरपुटप्रोद्धतैर्धूलिजालैरालोकालोकभूमीधरमतुलनिरालोक-
भावं प्रयाते । विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोका
ऋन्दन्ति शोकानलविकलतया किंच नन्दन्त्युलूकाः ॥' इत्यत्र धूलिजालरूपस्यै कस
वस्तुनोऽनेकैर्लोककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वेन प्रकारेणोल्लेखनादतिव्या
तेर्वारणाय प्रकारेऽनेकलोपादानस्यावश्यकत्वात् । 'सिआनैर्मञ्जरीति स्तनकलश
युगं चुम्बितं चञ्चरीकैस्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । त
लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह वदरिमृ
गदृशां नाप्यरण्यं शरण्यम् ॥' इत्यनेकभ्रान्तिपरम्परायामतिप्रसङ्गवारणार्थमेक
स्येत्युक्तमिति संक्षेपः ॥ यथार्हमिति ॥ स्त्रीभिः कामत्वोल्लेखे तासां रुचिरनु
रागः प्रयोजकः । अर्थिभिः कल्पतरुत्लोल्लेखे तेषां लिप्सा प्रयोजिका । शत्रुभि
र्यमत्वोल्लेखे तेषां भयं प्रयोजकमित्येवं यथायोग्यमित्यर्थः । उदाहरणान्तरमाह-
यथावेति ॥ गजत्रातेति ॥ श्रीकृष्णस्य मथुराप्रवेशवर्णनम् । शौरिः श्रीकृष्ण
वृद्धाभिर्गजत्रातेति दृष्ट इत्याद्यन्वयः । सकौतुकं सोत्कण्ठमिति दर्शनक्रियाविशेषण
सर्वत्र संबध्यते । श्लोकं व्याचष्टे – य इति ॥ तथा महाग्राहग्रहणेन । युव
तिसमूहैस्तरुणीसमूहैः ॥ पूर्व इति ॥ उदाहृत इति शेषः । उल्लेख इत्यनुषज्यते
आरोपरूपकसंकीर्ण इति पाठे आरोपस्वरूपं यद्रूपकं तत्संकीर्ण इत्यर्थः । आरो
परूपरूपकेति पाठस्तु स्पष्टार्थ एव ॥ २२ ॥ उल्लेख प्रभेदान्तरमाह - एकेनेति
व्याचष्टे – ग्रहीत्रिति । विषयमेदादित्यनन्तरमेकस्येति शेषः । विषयपद
माश्रय संबन्धिनोरुपलक्षणम् । अत एव लक्षणे ग्रहीतृविषयादीत्यादिपदे
 
-
 
-