2023-02-17 12:58:40 by ambuda-bot
This page has not been fully proofread.
उल्लेखालंकारः ७ ] अलंकारचन्द्रिकासहितः ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ।
अत्रारोप्यमाण आतरः सौमित्रिमैत्रीरूपतापत्त्या गुहोपकारकलक्षणकार्योप-
योगी न स्वात्मना गुहस्य रघुनाथप्रसादै कार्थित्वेन वेतनार्थित्वाभावात् ॥
२१
उल्लेखालंकारः ७
बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते ।
स्त्रीभिः कामोऽर्थिभिः स्वः कालः शत्रुभिरैक्षि सः ॥२२॥
यत्र नानाविधधर्म योग्यं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदेनानेकेन ग्रही-
त्रानेकधोल्लिख्यते तत्रोल्लेखः । अनेकधोल्लेखने रुच्यर्थित्वभयादिकं
Last
मुख इति रूपकाद्भेदो बोध्यः । असमासेऽप्युदाहरति - तीत्वेति ॥ मुरारिनाट-
कगतमेतत्पद्यम् । आत्मना तृतीयः । सीतालक्ष्मणसहित इति यावत् । असौ
प्रक्रान्तो रामः भूतेशस्य शंभोमलिमालारूपाममरनदीं गङ्गां तीर्त्वा तस्मै नावि-
काय गुहसंज्ञाय निषादपतये सौमित्रेर्लक्ष्मणस्य मैत्रीरूपमातरं तरणमूल्यमुपकृत-
वान् उपकाररूपतया दत्तवान् । अथो अनन्तरं चित्रकूटं प्रति प्रतस्थे प्रस्थित
वान् । कीदृशः । व्यामेन तिर्यक्प्रसारितभुजद्रयान्तरालेन ग्राह्यौ तावत्परिणाहौ
स्तनौ यासां तथाभूताभिः शबराणां व्याधानां युवतिभिः कौतुकेनोदञ्चन्ति विक-
सन्त्यक्षीणि यत्र क्रियायां तथा कृच्छ्रात्क्लेशात् अतएव क्षणमन्वीयमानः । अनुग-
म्यमान इत्यर्थः ॥ २१ ॥ इति परिणामालंकारप्रकरणम् ॥ ६ ॥
-
-
अथोल्लेखालंकारं लक्षयति – बहुभिरिति ॥ एकस्य बहुधोल्लेखादित्यन्वयः ।
उल्लेखनं विषयीकरणमुल्लेखः । हेतौ पञ्चमी । तथा चैवंविधोल्लेखाद्धेतोरुल्लेख इ-
घ्यते उल्लेख इति व्यवहियत इत्यर्थः । व्यवहारं प्रति लक्षणस्य प्रयोजकत्वात् ॥
स्त्रीभिरिति ॥ स्वः स्वर्गसंबन्धी द्रुमः कल्पतरुः । कालो यमः । स प्रकृतो
राजा । श्लोकं व्याचष्टे – यत्रेति ॥ नानाविधेति सौन्दर्य दातृत्वशूरत्वादिरूपे
इत्यर्थः । तत्तद्धर्मेति ॥ रुच्यर्थित्वभयादिरूपेत्यर्थः । एतच्च स्वरूपकथनं नतु
लक्षणान्तर्गतम् । ननु द्वाभ्यां ग्रहीतृभ्यां निमित्तद्वयवशात्प्रकारद्वयेनोल्लेखेऽव्या-
प्तिरत आह - अनेकेत्यादि । तथाच लक्षणे बहुपदमनेकपरमिति भावः ।
एवंच ग्रहीतृविषयाद्यन्यतमानेकत्वप्रयुक्तमेकस्योल्लिख्यमानानेक प्रकारत्वमुल्लेख इ-
ति लक्षणं बोध्यम् । सौन्दर्यस्य तरङ्गिणीत्यादिमालारूपकवारणायाद्यं विशेषणम् ।
तत्र ग्रहीतृभेदयुक्तं नानेकप्रकारत्वमिति नातिव्याप्तिः । वक्ष्यमाणोल्लेख प्रभेद -
साधारण्यायान्यतमप्रवेशः । तद्विवेचनं तद्व्याख्यानावसरे करिष्यामः । अन्यत
मानेकत्वप्रयुक्तमेकस्योल्लिख्यमानत्वमित्येतावदुक्तौ "विद्याविक्रमसौन्दर्यतपसां
निधिमागतम् । पश्यन्ति विबुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् )॥' इत्यत्राति-
व्याप्तिरतोऽनेकप्रकारत्वमित्युक्तम् । नचोल्लिख्यमानप्रकारत्वमित्येवास्तु । उक्तो-
दाहरणे प्रकारस्य कस्याप्यनुल्लेखादेवानतिप्रसङ्गादिति वाच्यम् । एवमपि 'नृ-
कुव. ४