2023-03-16 08:19:33 by Bharadwajraki
This page has been fully proofread once and needs a second look.
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ||
अत्रारोप्यमाण आतरः सौमित्रिमैत्रीरूपतापत्त्या गुहोपकारकलक्षणकार्योपयोगी न स्वात्मना गुहस्य रघुनाथप्रसादैकार्थित्वेन वेतनार्थित्वाभावात् ॥
_______________
उल्लेखालङ्कारः ७
बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते ।
स्त्रीभिः कामोऽर्थिभिः स्वर्द्रुः कालः शत्रुभिरैक्षि सः ॥२२॥
यत्र नानाविधधर्म योग्यं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदेनानेकेन ग्रहीत्रानेकधोल्लिख्यते तत्रोल्लेखः । अनेकधोल्लेखने रुच्यर्थित्वभयादिकं
[Commentary]
मुख इति रूपकाद्भेदो बोध्यः । असमासेऽप्युदाहरति -- तीर्त्वेति ॥ मुरारिनाटकगतमेतत्पद्यम् ।आत्मना तृतीयः । सीतालक्ष्मणसहित इति यावत् । असौ प्रक्रान्तो रामः भूतेशस्य शम्भोमौलिमालारूपाममरनदीं गङ्गां तीर्त्वा तस्मै नाविकाय गुहसंज्ञाय निषादपतये सौमित्रेर्लक्ष्मणस्य मैत्रीरूपमातरं तरणमूल्यमुपकृतवान् उपकाररूपतया दत्तवान् । अथो अनन्तरं चित्रकूटं प्रति प्रतस्थे प्रस्थितवान् । कीदृशः । व्यामेन तिर्यक्प्रसारितभुजद्वयान्तरालेन ग्राह्यौ तावत्परिणाहौ स्तनौ यासां तथाभूताभिः शबराणां व्याधानां युवतिभिः कौतुकेनोदञ्चन्ति विकसन्त्यक्षीणि यत्र क्रियायां तथा कृच्छ्रात्क्लेशात् अतएव क्षणमन्वीयमानः । अनुगम्यमान इत्यर्थः ॥ २१ ॥ इति परिणामालङ्कारप्रकरणम् ॥ ६ ॥
अथोल्लेखालङ्कारं लक्षयति -- बहुभिरिति ॥ एकस्य बहुधोल्लेखादित्यन्वयः ।
उल्लेखनं विषयीकरणमुल्लेखः । हेतौ पञ्चमी । तथा चैवंविधोल्लेखाद्धेतोरुल्लेख इष्यते उल्लेख इति व्यवह्रियते इत्यर्थः । व्यवहारं प्रति लक्षणस्य प्रयोजकत्वात् ॥ स्त्रीभिरिति ॥ स्वर्द्रुः स्वर्गसम्बन्धी द्रुमः कल्पतरुः । कालो यमः । स प्रकृतो राजा । श्लोकं व्याचष्टे -- यत्रेति ॥ नानाविधेति सौन्दर्य दातृत्वशूरत्वादिरूपे इत्यर्थः । तत्तद्धर्मेति ॥ रुच्यर्थित्वभयादिरूपेत्यर्थः । एतच्च स्वरूपकथनं नतु
लक्षणान्तर्गतम् । ननु द्वाभ्यां ग्रहीतृभ्यां निमित्तद्वयवशात्प्रकारद्वयेनोल्लेखेऽव्याप्तिरत आह --अनेकेत्यादि । तथाच लक्षणे बहुपदमनेकपरमिति भावः । एवं च ग्रहीतृविषयाद्यन्यतमानेकत्वप्रयुक्तमेकस्योल्लिख्यमानानेकप्रकारत्वमुल्लेख इति लक्षणं बोध्यम् । सौन्दर्यस्य तरङ्गिणीत्यादिमालारूपकवारणायाद्यं विशेषणम् । तत्र ग्रहीतृभेदयुक्तं नानेकप्रकारत्वमिति नातिव्याप्तिः । वक्ष्यमाणोल्लेख प्रभेदसाधारण्यायान्यतमप्रवेशः । तद्विवेचनं तद्व्याख्यानावसरे करिष्यामः । अन्यतमानेकत्वप्रयुक्तमेकस्योल्लिख्यमानत्वमित्येतावदुक्तौ "विद्याविक्रमसौन्दर्यतपसां निधिमागतम् । पश्यन्ति विबुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् )॥' इत्यत्रातिव्याप्तिरतोऽनेकप्रकारत्वमित्युक्तम् । नचोल्लिख्यमानप्रकारत्वमित्येवास्तु । उक्तोदाहरणे प्रकारस्य कस्याप्यनुल्लेखादेवानतिप्रसङ्गादिति वाच्यम् । एवमपि 'नृ-