This page has not been fully proofread.

कुवलयानन्दः । [ परिणामालंकारः ६
परिणामालंकारः ६.८
परिणाम: क्रियार्थचेद्विषयी विषयात्मना ।
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ २१ ॥
 
यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगित्वेन निबध्यमानः स्वतस्तस्य
तदुपयोगित्वासंभवात्प्रकृतात्मना परिणतिमपेक्षते तत्र परिणामालंकारः । अ-
त्रोदाहरणं प्रसन्नेनेति । अत्र हि अब्जस्य वीक्षणोपयोगित्वं निबध्यते नतु
दृशः । मयूरव्यंसकादिसमासेन उत्तरपदार्थप्राधान्यात् । न चोपमितसमासाश्र-
यणेन दृगब्जमिवेति पूर्वपदप्राधान्यमस्तीति वाच्यम् । प्रसन्नेनेति सामान्य-
धर्मप्रयोगात् । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग एवो-
पमितसमासानुशासनात् । अब्जस्य वीक्षणोपयोगित्वं न स्वात्मना संभवति ।
अतस्तस्य प्रकृतगात्मना परिणत्यपेक्षणात्परिणामालंकारः ॥ यथावा-
तीर्खा भूतेश मौलिस्रजममरधुनीमात्मनासौ
 
तृतीय-
स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय ।
 
२०
 
वस्तुन आरोग्य माणस्य शब्दविषयत्वं च द्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचां
बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्यमण्डले कुर्वते स्म कुसुमाञ्ज-
लिश्रियम् ॥' इत्यत्र प्रधानस्य नभसि नाट्यमण्डलत्वारोपस्यावयवभूतं विद्युतां
नर्तकीत्वरूपणमार्थं न शाब्दमित्येकदेशे विशेषेण शाब्दतया वर्तनादेकदेशविव-
र्तिलम् । 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतम-
पि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेयभिनवां प्रवृत्तो-
ऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' इत्यत्र प्रेमलतिकामित्यमालारूपं
निरवयवम् । 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म
नर्मरहसामुल्लासनावासभूः। विद्या वऋगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया बाणा:
पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥' इत्यत्र च मालारूपं निरवयवं
बोध्यम् । एवम् 'अलौकिक महालोकप्रकाशितजगत्रयः । स्तूयते देव सर्वंशमुक्ता-
रत्नं न कैभवान् ॥' इत्यत्र वेणुकुलयोः श्लिष्टेन वंशपदेन कुले वेणुत्वारोपपूर्वक
एव राज्ञि मुक्तारत्नत्वारोप इति लिटवाचकं केवलपरम्परितरूपकं विद्वन्मान-
सेत्या दावेतदेव मालारूपम् । चतुर्दशलोकवल्लिकन्द इत्यत्राश्लिष्टवाचकं केवलपर-
म्परितम् । 'पर्यको राजलक्ष्म्याः' इत्यादौ 'आलानं जयकुञ्जरस्य' इत्यादौ चालि-
टवाचकं मालापरम्परितं च द्रष्टव्यम् । विस्तरभयान्नेह प्रपञ्चयते ॥ १७ ॥१८ ॥
॥ १९ ॥ २० ॥ इत्यलंकारचन्द्रिकायां रूपकप्रकरणम् ॥ ५ ॥
 
परिणामं लक्षयति – परिणाम इति ॥ विषयनिष्ठायाः प्रकृतकार्योपयोगि
ताया अवच्छेदिका विषयतात्मतापरिणतिः परिणामः । सा च विषयतादात्म्या-
ध्यवसायविषयता । एवंच विषयाभेदस्यैव विषयिणि विवक्षणादृगभिन्नेनाब्जेनेति
स्वारसिक एव बोधो न तु रूपक इव दृनिष्ठाभेदप्रतियोगिनाब्जेनेत्यनुयोगित्व-
-