2023-04-20 04:47:16 by Bharadwajraki
This page has been fully proofread twice.
परिणामालंकारः ६
परिणाम: क्रियार्थश्चेद्विषयी विषयात्मना ।
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ २१ ॥
यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगित्वेन निबध्यमानः स्वतस्तस्य तदुपयोगित्वासम्भवात्प्रकृतात्मना परिणतिमपेक्षते तत्र परिणामालंकारः । अत्रोदाहरणं प्रसन्नेनेति । अत्र हि अब्जस्य वीक्षणोपयोगित्वं निबध्यते नतु दृशः । मयूरव्यंसकादिसमासेन उत्तरपदार्थप्राधान्यात् । न चोपमितसमासाश्रयणेन दृगब्जमिवेति पूर्वपदप्राधान्यमस्तीति वाच्यम् । प्रसन्नेनेति सामान्यधर्मप्रयोगात् । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग एवोपमितसमासानुशासनात् । अब्जस्य वीक्षणोपयोगित्वं न स्वात्मना सम्भवति । अतस्तस्य प्रकृत- दृगात्मना परिणत्यपेक्षणात्परिणामालंकारः ॥ यथावा --
तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय-
स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय ।
[commentary]
वस्तुन आरोग्यमाणस्य शब्दविषयत्वं च द्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्यमण्डले कुर्वते स्म कुसुमाञ्जलिश्रियम् ॥' इत्यत्र प्रधानस्य नभसि नाट्यमण्डलत्वारोपस्यावयवभूतं विद्युतां नर्तकीत्वरूपणमार्थं न शाब्दमित्येकदेशे विशेषेण शाब्दतया वर्तनादेकदेशविवर्तित्वम् । 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेद्मम्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' इत्यत्र प्रेमलतिकामित्यमालारूपं निरवयवम् । 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्मनर्मरहसामुल्लासनावासभूः। विद्या वऋक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया बाणा: पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥' इत्यत्र च मालारूपं निरवयवं बोध्यम् । एवम् 'अलौकिकमहालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥' इत्यत्र वेणुकुलयोः श्लिष्टेन वंशपदेन कुले वेणुत्वारोपपूर्वक एव राज्ञि मुक्तारत्नत्वारोप इति श्लिष्टवाचकं केवलपरम्परितरूपकं विद्वन्मानसेत्यादावेतदेव मालारूपम् । चतुर्दशलोकवल्लिकन्द इत्यत्राश्लिष्टवाचकं केवलपरम्परितम् । 'पर्यङ्को राजलक्ष्म्याः' इत्यादौ 'आलानं जयकुञ्जरस्य' इत्यादौ चाश्लिष्टवाचकं मालापरम्परितं च द्रष्टव्यम् । विस्तरभयान्नेह प्रपञ्चयते ॥ १७ ॥१८ ॥॥ १९ ॥ २० ॥
इत्यलंकारचन्द्रिकायां रूपकप्रकरणम् ॥ ५ ॥
परिणामं लक्षयति – परिणाम इति ॥ विषयनिष्ठायाः प्रकृतकार्योपयोगिताया अवच्छेदिका विषयतात्मतापरिणतिः परिणामः । सा च विषयतादात्म्याध्यवसायविषयता । एवंच विषयाभेदस्यैव विषयिणि विवक्षणादृगभिन्नेनाब्जेनेति स्वारसिक एव बोधो न तु रूपक इव दृङ्निष्ठाभेदप्रतियोगिनाब्जेनेत्यनुयोगित्व-
परिणाम: क्रियार्थश्चेद्विषयी विषयात्मना ।
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ २१ ॥
यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगित्वेन निबध्यमानः स्वतस्तस्य तदुपयोगित्वासम्भवात्प्रकृतात्मना परिणतिमपेक्षते तत्र परिणामालंकारः । अत्रोदाहरणं प्रसन्नेनेति । अत्र हि अब्जस्य वीक्षणोपयोगित्वं निबध्यते नतु दृशः । मयूरव्यंसकादिसमासेन उत्तरपदार्थप्राधान्यात् । न चोपमितसमासाश्रयणेन दृगब्जमिवेति पूर्वपदप्राधान्यमस्तीति वाच्यम् । प्रसन्नेनेति सामान्यधर्मप्रयोगात् । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग एवोपमितसमासानुशासनात् । अब्जस्य वीक्षणोपयोगित्वं न स्वात्मना सम्भवति । अतस्तस्य प्रकृत
तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय-
स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय ।
[commentary]
वस्तुन आरोग्यमाणस्य शब्दविषयत्वं च द्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्यमण्डले कुर्वते स्म कुसुमाञ्जलिश्रियम् ॥' इत्यत्र प्रधानस्य नभसि नाट्यमण्डलत्वारोपस्यावयवभूतं विद्युतां नर्तकीत्वरूपणमार्थं न शाब्दमित्येकदेशे विशेषेण शाब्दतया वर्तनादेकदेशविवर्तित्वम् । 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेद्
परिणामं लक्षयति – परिणाम इति ॥ विषयनिष्ठायाः प्रकृतकार्योपयोगिताया अवच्छेदिका विषयतात्मतापरिणतिः परिणामः । सा च विषयतादात्म्याध्यवसायविषयता । एवंच विषयाभेदस्यैव विषयिणि विवक्षणादृगभिन्नेनाब्जेनेति स्वारसिक एव बोधो न तु रूपक इव दृङ्निष्ठाभेदप्रतियोगिनाब्जेनेत्यनुयोगित्व-