2023-04-20 04:40:07 by Bharadwajraki
This page has been fully proofread twice.
अत्र हरावपर इति विशेषणात्रिष्वपि ताद्रूष्प्यमात्रविवक्षा विभाविता, चतुर्वदनत्वादिवैकल्यं चोक्तमिति न्यूनताद्रूप्यरूपकम् । इदं विशेषोत्त्युदाहरणमिति वामनमतम् । यदाह -- 'एकगुणहानौ गुणसाम्यदार्ढ्यं विशेषोक्तिः' इति ।
किमसुभिर्ग्र्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः ।
मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥
अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवेशश्रुतितात्पर्यविषयः । किन्तु नलमुखचन्द्र एवेति ततोऽस्याधिक्यप्रतिपादनादधिकताद्रूप्यरूपकम् । रूपकस्य सावयवत्वनिरवयवत्वादिभेदप्रपञ्चनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥
[commentary]
ताद्रूप्यरूपकं स्यादितरांशे त्वभेदरूपकमेवेत्याशङ्कक्याह -- अत्रेति ॥ त्रिष्वपीति ॥एकत्रानेकारोपरूपायां रूपकमालायामवैरूप्याय तात्पर्यग्राहकस्यैकत्र स्थितस्यापि साधारण्यमेवोचितमिति भावः । अयमेव च साध्वित्यादिपूर्वोदाहरणाद्विशेषः । न्यूनरूपकस्य चमत्कारित्वं पूर्वमुक्तं वृद्धसंमत्या द्रढयति -- इदमिति ॥ यदाहेत्यनन्तरं स इति शेषः ।एकगुणहानावभिहितायामिति शेषः । गुणसाम्यदार्ढ्य शेषगुणप्रयुक्तसाम्यायोगव्यवच्छेदः । चतुर्वदनत्वाद्येकगुणव्यतिरेकस्य प्रमाणान्तरसिद्धस्य पुनर्वचनं शेषगुणाभावपरिसंख्यार्थ पर्यवस्यतीति भावः । अत्रच रूपकप्रभेदत्वेनैव चमत्कारोपपत्तौ नालंकारान्तरत्वं न्यूनत्ववर्णनस्य युकम् । सामग्रीकालीनकार्याभावस्य त्वलंकारान्तरासंभिन्नस्य तद्वक्ष्यमाणं युक्तमित्यस्वरसो मतमित्यनेन सूचितः ॥ किमसुभिरिति ॥ जडेति मूर्ख-जलमयेति साधारणं चन्द्र सम्बोधनम् । ग्लपितैर्नष्टैरसुभिर्निमित्तभूतैर्भीमसुताया दमयन्त्या मनो मयि निमज्जतु निलीयतामिति मन्यसे किमिति सोपहासकाकुः । तेन मैवं मंस्था इत्यर्थः । अत्र हेतुमाह । किल निश्चितम् । मम विबुधः पण्डितः स्मरः तदर्थिकां सः प्राणनिर्गमकालीनमनःप्रवेशोऽर्थो यस्यास्तां श्रुतिं नलमुखेन्दुपरां मनःप्रवेशाधिकरणत्वेन नलमुखचन्द्रतात्पर्यवतीमाहेति । अयं कलङ्कित इत्युदाहरणे दोषशून्यत्वप्रयुक्तं शाब्दमाधिक्यम्, इह तु गुणविशेषप्रयुक्तं गम्यमानं तदिति विशेषः ॥ सावयवत्वनिरवयवत्वादीति ॥ आदिना समस्तवस्तुविषयत्वादिरूपैतत्प्रभेदानां परम्परितत्वरूपभेदान्तरस्य च परिग्रहः । तथाहि सावयवं निरवयवं परम्परितं चेति त्रिविधं रूपकं प्रत्येकं क्रमेण द्विविधम् । समस्तवस्तुविषयमेकदेशविवर्ति च केवलं माला च श्लिष्टवाचकमश्लिष्टवाचकं चेति श्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामन्त्यं चतुर्विधमित्यष्टौ भेदाः । तत्र 'ज्योत्स्ना भस्मच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका
रात्रिकापालिकीयम् । द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्रां कपाले न्यस्तं सिद्धाजनपरिमलं लाञ्छनस्य च्छलेन ॥' इति पद्य रात्रौ कापालिकीत्वारोपस्य प्रधानतयावयविनोऽवयवरूपाणि ज्योत्स्नाभस्मेत्यादिरूपकाणीति सावयवत्वं समस्तस्य
किमसुभिर्ग्
मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥
अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवेशश्रुतितात्पर्यविषयः । किन्तु नलमुखचन्द्र एवेति ततोऽस्याधिक्यप्रतिपादनादधिकताद्रूप्यरूपकम् । रूपकस्य सावयवत्वनिरवयवत्वादिभेदप्रपञ्चनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥
[commentary]
ताद्रूप्यरूपकं स्यादितरांशे त्वभेदरूपकमेवेत्याशङ्