2023-03-16 05:45:54 by Bharadwajraki
This page has not been fully proofread.
१९
-
किमसुभिग्र्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः ।
मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥
अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवे
[commentary]
-
ताद्रूप्यरूपकं स्यादितरांशे त्वभेदरूपकमेवेत्याशङ्कयाह
– अत्रेति ॥ त्रिष्वपी-
ति ॥ एकत्रानेकारोपरूपायां रूपकमालायामवैरूप्याय तात्पर्यग्राहकस्यैकत्र
स्थितस्यापि साधारण्यमेवोचितमिति भावः । अयमेव च साध्वित्यादिपूर्वोदाह-
रणाद्विशेषः । न्यूनरूपकस्य चमकारित्वं पूर्वमुक्तं वृद्धसंमत्या द्रढयति – इदमि-
ति ॥ यदाहेत्यनन्तरं स इति शेषः । एकगुणहानावभिहितायामिति शेषः । गुण-
साम्यदार्ढ्य शेषगुणप्रयुक्तसाम्यायोगव्यवच्छेदः । चतुर्वदनत्वायेकगुणव्यतिरेकस्य
प्रमाणान्तरसिद्धस्य पुनर्वचनं शेषगुणाभाव परिसंख्यार्थ पर्यवस्यतीति भावः ।
अत्रच रूपकप्रभेदत्वेनैव चमत्कारोपपत्तौ नालंकारान्तरत्वं न्यूनत्ववर्णनस्य यु-
कम् । सामग्रीकालीनकार्याभावस्य त्वलंकारान्तरासंभिन्नस्य तद्वक्ष्यमाणं युक्त-
मित्यस्वरसो मतमित्यनेन सूचितः ॥ किमसुभिरिति ॥ जडेति मूर्ख-जलमये-
ति साधारणं चन्द्र संबोधनम् । ग्लपितैनष्टैरसुभिर्निमित्तभूतैर्भीमसुताया दमय-
न्त्या मनो मयि निमज्जतु निलीयतामिति मन्यसे किमिति सोपहासकाकुः । तेन
मैवं मंस्था इत्यर्थः । अत्र हेतुमाह । किल निश्चितम् । मम विबुधः पण्डितः
स्मरः तदर्थिकां सः प्राणनिर्गमकालीनमनःप्रवेशोऽर्थो यस्यास्तां श्रुतिं नलमु-
खेन्दुपरां मनःप्रवेशाधिकरणत्वेन नलमुखचन्द्रतात्पर्यवतीमाहेति । अयं कलङ्कित
इत्युदाहरणे दोषशून्यत्वप्रयुक्तं शाब्दमाधिक्यम् इह तु गुणविशेषप्रयुक्तं गम्य-
मानं तदिति विशेषः ॥ सावयवत्वनिरवयवत्वादीति ॥ आदिना समस्त-
वस्तुविषयत्वादिरूपैतत्प्रभेदानां परम्परितत्वरूपभेदान्तरस्य च परिग्रहः । तथा
हि सावयवं निरवयवं परम्परितं चेति त्रिविधं रूपकं प्रत्येकं क्रमेण द्विविधम् ।
समस्त वस्तुविषय मे क देश विवर्ति च केवलं माला च श्लिष्टवाचकमश्लिष्टवाचकं
चेति श्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामन्त्यं चतुर्विधमित्यष्टौ भेदाः ।
तत्र 'ज्योत्स्ना भस्मच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका
रात्रिकापालिकीयम् । द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्रां कपाले न्यस्तं सिद्धाज-
नपरिमलं लाञ्छनस्य च्छलेन ॥' इति पद्य रात्रौ कापालिकीत्वारोपस्य प्रधान-
तयावयविनोऽवयवरूपाणि ज्योत्स्नाभस्मेत्यादिरूपकाणीति सावयवत्वं समस्तस्य
9