This page has been fully proofread once and needs a second look.

न्यूनत्वाधिक्ययोरवर्णनाच्चानुभयाभेदरूपकमाद्यम् । तृतीयलोचनप्रहाणोक्त्या पूर्वावस्थातो न्यूनताप्रदर्शनान्यूनाभेदरूपकं द्वितीयम् । न्यूनत्ववर्णनमप्यभेददार्ढ्यापादकत्वाञ्चमत्कारिविषयदृष्टित्वपरित्यागेन जगद्रक्षकत्वोक्त्या शिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायामुत्कर्षविभावनादधिकाभेदरूपकं तृतीयम् । एवमुत्तरेषु तादूप्यरूपकोदाहरणेष्वपि क्रमेणानुभयन्यूनाधिकभावा उन्नयाः । अनेनैव क्रमेणोदाहरणान्तराणि -
 
-

चन्द्रज्योत्स्त्राविशदपुलिने सैकतेऽस्मिन्छरखाय्वा
वादद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको वक्ति प्रथमनिहतं कैटभं कंसमन्य-
स्तत्त्वं स त्वं कथय भगवन्को हतस्तत्र पूर्वम् ॥
 
१७

 
अत्र स त्वमित्यनेन यः कंसकैटभयोर्हन्ता गरुडध्वजस्तत्तादात्म्यं वर्णनी
यस्य राज्ञः प्रतिपाद्य तं प्रति कंसकैटभवधयोः पौर्वापर्यप्रश्नव्याजेन तत्तादा.
त्म्य दार्ढ्यकरणात्पूर्वावस्थात उत्कर्षापकर्षयोरविभावनाच्चानुभयाभेदरूपकम् ।
 
वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च ।
तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः ॥
 
अत्र साक्षादिति विशेषणेन विरक्तस्य प्रसिद्धशिवतादात्म्यमुपदिश्य नरा.
कृतिरिति दिव्यमूर्तिवैकल्यप्रतिपादनान्यूनाभेदरूपकम् ।
 
-[commentary]
 
तीतेः कथं चमत्कारितेत्यत आह -- अभेददार्थाढ्यापादकत्वादिति ॥ विशेष-
निषेधस्य शेषाभ्यनुज्ञानफलकतया निषिद्धव्यतिरिक्तसकलगुणशालिताप्रतीतौ 'ए.
देश विकृतमनन्यवद्भवति' इति न्यायेनाभेदनिश्चयसंसम्पादकत्वादित्यर्थः । विभाव
नात्प्रकाशनात् ॥ चन्द्रज्योत्स्नेति ॥ राजानं प्रति कस्यचिदुक्तिः । हे भगवन्
चन्द्रज्योत्स्नावद्विशदं श्वेतं पुलिनं यस्य तथाभूतेऽस्मिन् शरय्वाः शरयूनामकनद्याः
सैकते सिकतामयदेशे कयोश्चित्सिद्धतरुणयोश्चिरतरमतिचिरकालं वादरूपं द्यूतम.
भूत् । कीदृक्तत्राह । एकः सिद्धयुवा कैटभं दैत्यविशेषं प्रथमं निहतं वक्ति वदति,
अन्यः कंसं प्रथमं निहतं वक्ति, स कंसकैटभयोर्हन्ता त्वं तत्र तयोर्मध्ये पूर्वं को
हत इति तत्त्वं कथयेत्यन्वयः । यद्यपि मुनिप्रभृतावेव भगवन्नित्यामन्त्रणमुचितं
न राजादौ तथापि राज्ञो भगवत्तादात्म्यवर्णनादनौचित्यं परिहरणीयम् । क्वचित्तु
भवतेति पाठः । अत्र ज्योत्स्ना पदेनैव चन्द्रिकालाभेऽपि चन्द्रपदं शारदपूर्णचन्द्र
परतया नापुष्टार्थम् । पुष्पमालेल्यत्र पुष्पपदमिवोत्कृष्टपुष्पपरतयेति बोध्यम् ।
वादयोग्यतासूचनाय यूनोरित्युक्तम् । अयं हीत्युदाहरणेऽभेदारोप हेतुभूतं पुरदा.
हकवरूपं साधर्म्यमुपात्तं इह तु जगद्रक्षकत्वादिकं तद्गम्यमानमिति भेदः ।
वेधा इति ॥ द्वेधा कान्ताधर्मिकत्वकनकधर्मिकत्वरूपविधाययुक्तं भ्रमं बल-
वदनिष्टाननुबन्धिसुखसाधनत्वभ्रमम् । सर्वेषामपि भ्रमाणां वेधसा निर्माणेsपि
प्राधान्य विवक्षयेत्यभिधानम् । अयमास्त इत्युदाहरणे शंशम्भुसादृश्यं गम्यमान मिह