2023-02-17 12:58:39 by ambuda-bot
This page has not been fully proofread.
[ रूपकालंकारः ५
।
कुवलयानन्दः ।
साध्वीयमपरा लक्ष्मीरसुधासांगरोदिता
अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥ २० ॥
विषय्युपमानभूतं पद्मादि विषयस्तदुपमेयं वर्णनीयं मुखादि विषयिणो
रूपेण विषयस्य रञ्जनं रूपकम् । अन्यरूपेण रूपवत: करणात्तच्च क्वचित्प्रसिद्ध-
विषय्यभेदपर्यवसितं क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्र पर्यवसि-
तम् । ततश्च रूपकं तावद्विविधम् ।. अभेदरूपकं ताद्रूप्यरूपकं चेति । द्विवि-
धमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन न्यूनत्ववर्णने-
नानुभयोक्त्या चैवं रूपकं षड्डिधम् । अयं हीत्यादिसार्ध श्लोकेनाभेदरूपकाणि
अस्या मुखेन्दुनेत्यादिसार्ध श्लोकेन ताद्रूप्यरूपकाणि । आधिक्यन्यूनत्वानुभयो-
क्तयुद्देश क्रमप्रातिलोम्येनोदाहृतानि । येन दग्धा इति विशेषणेन वर्णनीये राज्ञि
प्रसिद्धशिवाभेदानुरञ्जनाच्छिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायां
वावस्थायां समदृष्टितां समसंख्य लोचनतामेकरूपलोचनवत्तां च । मुखेन्दुनेति ।
अत्रेन्दुपदमिन्दुकार्यकारिपरम् । किमिन्दुनेति प्रसिद्धचन्द्राद्भेदविवक्षणात् । अत
चन्द्रताद्रूप्यरूपकमिदम् । न चात्रोत्तरपदार्थप्राधान्यादिन्दुकार्यकारिणि मुखामे-
दभानान्मुखामेदरूपकं स्यान्न तु चन्द्रताद्रूप्यरूपक मिति वाच्यम् । व्युत्पत्तिवैचि-
त्र्येण मुखस्य स्वनिष्ठाभेद प्रतियोगित्वसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिक-
स्यापि विशेषण संबन्धतायाः स्वामित्वस्य षष्ठ्यर्थत्ववादिभिः प्राचीनैश्चैत्रस्य धनमि-
त्यादावङ्गीकारात् । एवंच मुखनिष्ठाभेद प्रतियोगी चन्द्रस्तत्कार्यकारी वेति बोधान्न
मुखाभेदरूपकापत्तिर्मुख प्रतियोगिका भेदस्याभानादित्येवमन्यत्राप्यूयम् ॥ असु-
घेति ॥ सुधासागरादुदितोत्पन्ना प्रसिद्धा लक्ष्मीः, इयं तु न तथेति न्यूनत्वोक्तिः ॥
अतिरिच्यत इति ॥ निष्कलङ्कतया अधिको भवतीत्यर्थः ॥ लक्षणश्लोकं व्याच-
हे - विषय्युपमानेत्यादि ॥ विषयिणोऽभेदेन रूपेण चेति पाठः । रूपेण आह्लाद-
कत्वादिना ताद्रूप्येण । क्वचित्ताद्रूप्येण चेत्येव पाठः । परमार्थतस्तु प्रामाणिकपुस्त-
केषु विषयिणो रूपेण विषयस्य रञ्जन मिति युक्ततरः पाठः । तेन तच्चेत्यादेर्न पौनरु-
क्तयमिति ध्येयम् । हरिद्रादिना पटा दिरञ्जने प्रयुक्तस्य रञ्जनशब्दस्येह प्रवृत्तौ बीज-
माह - अन्यरूपेणेति ॥ रूपं रक्तपीतादिकम् । अभेदताद्रूप्ये च तथा चान्यदी-
यधर्मेणान्यस्य तद्वत्तासंपादनत्वसामान्यादिह गौणरञ्जनशब्दप्रयोग इति भावः ॥
तञ्चेति ॥ रञ्जनं चेत्यर्थः ॥ प्रसिद्धेति ॥ कविसंप्रदायप्रसिद्धोपमानाभेदेन लब्धा-
त्मकमित्यर्थः । रूपपदस्याभेदताद्रूप्योभयसाधारणत्वादिति भावः । अभेदेन रूपेण
चेति पाठे तु तच्चेत्यत्र चशब्दो हेत्वर्थकः । तेन पूर्वोक्तस्यैव समर्थन मिति न पौन-
रुक्त्यम् । तावद्विधान्तरोक्तेः प्रागुद्देशक्रमप्रातिलोम्येनेति । निर्देशक्रमवैपरीत्येने-
त्यर्थः । एतदेव विशदयति- येनेत्यादि ॥ विशेषणेनेति हेतौ तृतीया । पुरदग्ध-
त्वविशेषण हेतु कशिवाभेदानुरञ्जनादित्यर्थः । ननु न्यूनत्ववर्णने भेदापकर्षयोः प्र
१ 'सागरोत्थिता'.