2023-04-19 15:16:17 by Bharadwajraki
This page has been fully proofread twice.
साध्वीयमपरा लक्ष्मीरसुधा[^१]सांगरोदिता
अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥ २० ॥
विषय्युपमानभूतं पद्मादि विषयस्तदुपमेयं वर्णनीयं मुखादि विषयिणो रूपेण विषयस्य रञ्जनं रूपकम् । अन्यरूपेण रूपवत: करणात्तच्च क्वचित्प्रसिद्धविषय्यभेदपर्यवसितं क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रपर्यवसितम् । ततश्च रूपकं तावद्विविधम् । अभेदरूपकं ताद्रूप्यरूपकं चेति । द्विविधमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन न्यूनत्ववर्णनेनानुभयोक्त्या चैवं रूपकं षड्विधम् । अयं हीत्यादिसार्धश्लोकेनाभेदरूपकाणि अस्या मुखेन्दुनेत्यादिसार्धश्लोकेन ताद्रूप्यरूपकाणि । आधिक्यन्यूनत्वानुभयोक्त्युद्देशक्रमप्रातिलोम्येनोदाहृतानि । येन दग्धा इति विशेषणेन वर्णनीये राज्ञि प्रसिद्धशिवाभेदानुरञ्जनाच्छिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायां
[commentary]
वावस्थायां समदृष्टितां समसंख्यलोचनतामेकरूपलोचनवत्तां च । मुखेन्दुनेति ।
अत्रेन्दुपदमिन्दुकार्यकारिपरम् । किमिन्दुनेति प्रसिद्धचन्द्राद्भेदविवक्षणात् । अतश्चन्द्रताद्रूप्यरूपकमिदम् । न चात्रोत्तरपदार्थप्राधान्यादिन्दुकार्यकारिणि मुखाभेदभानान्मुखाभेदरूपकं स्यान्न तु चन्द्रताद्रूप्यरूपकमिति वाच्यम् । व्युत्पत्तिवैचित्र्येण मुखस्य स्वनिष्ठाभेदप्रतियोगित्वसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिकस्यापि विशेषणसम्बन्धतायाः स्वामित्वस्य षष्ठ्यर्थत्ववादिभिः प्राचीनैश्चैत्रस्य धनमित्यादावङ्गीकारात् । एवं च मुखनिष्ठाभेदप्रतियोगी चन्द्रस्तत्कार्यकारी वेति बोधान्न मुखाभेदरूपकापत्तिर्मुखप्रतियोगिकाभेदस्याभानादित्येवमन्यत्राप्यूह्यम् ॥ असुघेधेति ॥ सुधासागरादुदितोत्पन्ना प्रसिद्धा लक्ष्मीः, इयं तु न तथेति न्यूनत्वोक्तिः ॥ अतिरिच्यत इति ॥ निष्कलङ्कतया अधिको भवतीत्यर्थः ॥ लक्षणश्लोकं व्याचष्टे -- विषय्युपमानेत्यादि ॥ विषयिणोऽभेदेन रूपेण चेति पाठः । रूपेण आह्लादकत्वादिना ताद्रूप्येण । क्वचित्ताद्रूप्येण चेत्येव पाठः । परमार्थतस्तु प्रामाणिकपुस्तकेषु विषयिणो रूपेण विषयस्य रञ्जनमिति युक्ततरः पाठः । तेन तच्चेत्यादेर्न पौनरुक्त्यमिति ध्येयम् । हरिद्रादिना पटादिरञ्जने प्रयुक्तस्य रञ्जनशब्दस्येह प्रवृत्तौ बीजमाह -- अन्यरूपेणेति ॥ रूपं रक्तपीतादिकम् । अभेदताद्रूप्ये च तथा चान्यदीयधर्मेणान्यस्य तद्वत्तासम्पादनत्वसामान्यादिह गौणरञ्जनशब्दप्रयोग इति भावः ॥ तच्चेति ॥ रञ्जनं चेत्यर्थः ॥ प्रसिद्धेति ॥ कविसम्प्रदायप्रसिद्धोपमानाभेदेन लब्धात्मकमित्यर्थः । रूपपदस्याभेदताद्रूप्योभयसाधारणत्वादिति भावः । अभेदेन रूपेण चेति पाठे तु तच्चेत्यत्र चशब्दो हेत्वर्थकः । तेन पूर्वोक्तस्यैव समर्थनमिति न पौनरुक्त्यम् । तावद्विधान्तरोक्तेः प्रागुद्देशक्रमप्रातिलोम्येनेति । निर्देशक्रमवैपरीत्येनेत्यर्थः । एतदेव विशदयति -- येनेत्यादि ॥ विशेषणेनेति हेतौ तृतीया । पुरदग्धृत्वविशेषणहेतुकशिवाभेदानुरञ्जनादित्यर्थः । ननु न्यूनत्ववर्णने भेदापकर्षयोः प्र-
[^१] 'सागरोत्थिता'.
अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥ २० ॥
विषय्युपमानभूतं पद्मादि विषयस्तदुपमेयं वर्णनीयं मुखादि विषयिणो रूपेण विषयस्य रञ्जनं रूपकम् । अन्यरूपेण रूपवत: करणात्तच्च क्वचित्प्रसिद्धविषय्यभेदपर्यवसितं क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रपर्यवसितम् । ततश्च रूपकं तावद्विविधम् । अभेदरूपकं ताद्रूप्यरूपकं चेति । द्विविधमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन न्यूनत्ववर्णनेनानुभयोक्त्या चैवं रूपकं षड्विधम् । अयं हीत्यादिसार्धश्लोकेनाभेदरूपकाणि अस्या मुखेन्दुनेत्यादिसार्धश्लोकेन ताद्रूप्यरूपकाणि । आधिक्यन्यूनत्वानुभयोक्त्युद्देशक्रमप्रातिलोम्येनोदाहृतानि । येन दग्धा इति विशेषणेन वर्णनीये राज्ञि प्रसिद्धशिवाभेदानुरञ्जनाच्छिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायां
[commentary]
वावस्थायां समदृष्टितां समसंख्यलोचनतामेकरूपलोचनवत्तां च । मुखेन्दुनेति ।
अत्रेन्दुपदमिन्दुकार्यकारिपरम् । किमिन्दुनेति प्रसिद्धचन्द्राद्भेदविवक्षणात् । अतश्चन्द्रताद्रूप्यरूपकमिदम् । न चात्रोत्तरपदार्थप्राधान्यादिन्दुकार्यकारिणि मुखाभेदभानान्मुखाभेदरूपकं स्यान्न तु चन्द्रताद्रूप्यरूपकमिति वाच्यम् । व्युत्पत्तिवैचित्र्येण मुखस्य स्वनिष्ठाभेदप्रतियोगित्वसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिकस्यापि विशेषणसम्बन्धतायाः स्वामित्वस्य षष्ठ्यर्थत्ववादिभिः प्राचीनैश्चैत्रस्य धनमित्यादावङ्गीकारात् । एवं
[^१] 'सागरोत्थिता'.