This page has been fully proofread twice.

रूपकालंकारः ५
 
विषय्यभेदता [^१]दूप्यरञ्जनं विषयस्य यत् ।
रूपकं तत्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥ १७ ॥
 
अयं हि धूर्जटि: साक्षाद्येन दग्धाः पुरः क्षणात् ।
अयमास्ते विना शम्भुस्तार्तीयीकं विलोचनम् ॥ १८ ॥
शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् ।
अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥ १९ ॥
 
[commentary]
 
रूपकं लक्ष्यति -- विषय्यभेदेति ॥ रूप्यते इतरव्यावृत्ततया ज्ञायते धर्मी अनेनेति रूपं तद्रूपमस्यासौ तद्रूपस्तस्य भावस्ताद्रूप्यं चन्द्रकार्यकारित्वादि विषयिण उपमानस्याभेदताद्रप्याभ्यां विषयस्योपमेयस्य यद्रञ्चनमिव रञ्जनम् । स्वोपरक्तबुद्धिविषयीकरणमिति यावत् । तद्रूपकमित्यर्थः । रूपकं तदित्येव पाठः । रूपकं त्विति पाठे तु तदित्यध्याहार्यम् । उपात्तविम्बाविशिष्टविषयधर्मिकाहार्यारोपनिश्चयविषयीभूतमुपमानाभेदताद्रूप्यान्यतररूपकमिति तु निष्कर्षः । मुखं चन्द्र इत्यादौ नामार्थयोरभेदान्वयव्युत्पत्तिवशादाहार्यचन्द्राभेदनिश्चयाल्लक्षणसमन्वयः । मुखमपरश्चन्द्र इत्यत्र तु न चन्द्राभेदो विषयः । अपर इति भेदस्य विवक्षितत्वात् । अपितु चन्द्रकार्यकारित्वरूपं ताद्रूप्यमिति तत्रापि लक्षणसंगतिः । नच तस्य मुखे सत्वात्कथमारोप इति वाच्यम् । चन्द्रकार्यसजातीयकारित्वस्यैव मुखे सत्त्वादिति । यद्यपि नामार्थयोरभेदान्वयानुरोधादिहापि चन्द्रपदलक्षितस्य तत्कार्यकारिणोऽभेदसंसर्गेणैव मुखेऽन्वयादभेदरूपकमेव, तथाप्युपमानतावच्छेदकरूपेणाभेदभाने एवाभेदरूपकत्वं कार्यकारित्वादिरूपेणाभेदभाने तु ताद्रूप्यरूपकत्वमिति तात्पर्यम् । अत्र 'कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम्' इत्याद्यतिशयोक्तिवारणायोपात्तेति विषय विशेषणम् । आरोपश्च निषेधानङ्गकत्वेन विशेषणीयः । तेनापह्नुतौ नातिव्याप्तिः । भ्रान्तिवारणायाहार्येति । 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥' इति । निदर्शनावारणाय बिम्बाविशिष्टेति । संशयोत्प्रेक्षयोर्निरासाय निश्चयेत्युक्तमिति संक्षेपः ॥ आधिक्येत्यादि । आधिक्यमुपमानस्य स्वाभाविकीमवस्थामपेक्ष्योपमेयतादात्म्यावस्थायां बोध्यम् । एवं न्यूनत्वमपि । अनुभवमाधिक्यन्यूनत्वोभयरहितमभेदताद्रूप्यान्यतरमात्रम् ॥ अयं हीत्यादि ॥ अयं वर्ण्यमानो राजा । येन हेतुना । पुरो नगर्यः । शिवस्यापि त्रिपुरदग्धृत्वात्स एवायमिति भावः । तार्तीयीकमिति तृतीयमेव तार्तीयीकम् 'तीयादीकक्वार्थे वा वाच्यः' इति वार्तिकानुसारात् । विलोचनं विनेयन्वयः ॥ शम्भुरिति ॥ अत्राप्ययमित्यनुषञ्जनीयम् । अन्यथातिशयोक्त्यापत्त्या रूपकोदाहरणत्वासङ्गतेः । अद्य राजभा-
 
[^१] 'तादूप्यं'.