2023-02-17 12:58:39 by ambuda-bot
This page has not been fully proofread.
कुवलयानन्दः ।
[ प्रतीपालंकार: ४
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ।
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥
तदन्तर्भावं मन्वते ।
अन्ये तु पञ्चमं प्रतीपप्रकारमुपमानाक्षेपरूपत्वादाक्षेपालंकारमाहुः ॥ १६ ॥
केचिदनन्वयोपमाप्रतीपानामुपमाविशेषत्वेन
१४
पमान कार्यकारित्वेन । अयं चोपमान कैमर्थ्य हेतुः । अतश्चोपमानकैमर्थ्य मित्यध्या-
हार्यम् । आह्लाद विशेषादेरन्यलभ्यत्वेन प्रयोजन त्वासंभवात्कैमर्थ्य मिति भावः ।
उपमान प्रयोजक धूर्वहत्वेनेति पाठे उपमानं प्रयोजकं यस्य इति बहुव्रीहिः । ननु
'उपमान कैमर्थ्यस्योपमानाक्षेपश्चाक्षेपः' इति वामनसूत्रेणाक्षेपालंकारत्वेनोक्तत्वा-
तकथं प्रतीपत्वमत आह- उपमानप्रातिलोम्यादिति । उपमानप्रतिकूलत्वादि-
त्यर्थः । प्रतिकूलत्वं च तिरस्कार प्रयोजकत्वमित्युक्तम् । तथाच प्रतीपसामान्यल-
क्षणाक्रान्तत्वात्प्रतीपान्तर्भाव एवोचित इति भावः ॥ तदोजस इति ॥ नैष-
धीये नैषधवर्णनमिदम् । विधिर्ब्रह्मा तस्य नलस्यौजसः प्रतापस्य तद्यशसञ्च
स्थितौ सत्यामिमौ सूर्यचन्द्रौ वृथा प्रतापज्योत्स्नादेः कार्यस्य ताभ्यामेवोपपत्ते-
र्निरर्थकाविति चित्ते यदा यदा कुरुते तदा भानोर्विधोश्च परिवेषस्य परिधेः कै-
तवाच्छलात्कुण्डलनां वैयर्थ्यसूचिकां रेखावेष्टनां करोतीत्यन्वयः । अत्रच नायं
परिवेषः किंतु कुण्डलनेत्यपहुतौ कैमर्थ्यरूपप्रतीपस्याङ्गत्वात्तयोरङ्गाङ्गिभावलक्षणः
संकरः । यद्यत्पापमित्यादिवञ्च तत्पदे वी साया अकरणं न दोष इति बोध्यम् ।
केचिद्दण्डीप्रभृतयः ॥ अनन्वयोपमेयोपमाप्रतीपानामिति ॥ प्रतीपपदेन
चात्राद्यभेदत्रयमेव गृह्यते न त्वन्त्यभेदद्वयमपि । तत्रोप मितिक्रिया निष्पत्तेरभावेनो-
पमान्तर्भावस्यासंभवात् । वस्तुतस्त्वाद्यभेदत्रयस्यापि नोपमान्तर्गतिर्युक्ता । चम-
कारं प्रति साधर्म्यस्य प्राधान्येनाप्रयोजकत्वात् । सामर्थ्य निबन्धन उपमानति-
रस्कार एव हि तत्र चमत्कृतिप्रयोजकतया विवक्षितो नतु साधर्म्यमेव मुखत-
चमत्कारितया विवक्षितमिति सहृदयसाक्षिकम् । एवमनन्वयोपमेयोपमयोरपि
न सादृश्यस्य चमत्कारितया प्राधान्येन विवक्षा किंतु द्वितीयतृतीयसदृशव्यवच्छे-
दोपायतयेति न तयोरप्युपमान्तर्गतिर्युज्यते । अन्यथा सादृश्यवर्णनमात्रेणोप-
मान्तर्भावे 'धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः । गुणैस्तुल्योऽसि भेदतु
वपुषैवेदृशेन ते ॥" इति व्यतिरेकालंकारस्याप्युपमान्तर्गतिः स्यात् तत्र साध-
र्म्य समानाधिकरणं वैधर्म्यमेव चमत्कारे प्रधानं नतु साधर्म्यमिति चेत्तुल्यमिदं
प्रतीपादिष्वपीति सहृदयैराकलनीयम् । एतावदेवास्वरसबीजममिसंधायोक्तं के-
चिदिति । अन्ये वामनादयः । अत्र चाखरसबीजं प्रागेवावेदितम् ॥ १६ ॥
इति प्रतीपप्रकरणम् ॥ ४ ॥