2023-04-19 14:35:58 by Bharadwajraki
This page has been fully proofread twice.
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ।
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥
केचिदनन्वयोपमाप्रतीपानामुपमाविशेषत्वेन तदन्तर्भावं मन्वते ।
अन्ये तु पञ्चमं प्रतीपप्रकारमुपमानाक्षेपरूपत्वादाक्षेपालंकारमाहुः ॥ १६ ॥
------------------
[commentary]
पमानकार्यकारित्वेन । अयं चोपमानकैमर्थ्ये हेतुः । अतश्चोपमानकैमर्थ्यमित्यध्याहार्यम् । आह्लादविशेषादेरन्यलभ्यत्वेन प्रयोजनत्वासम्भवात्कैमर्थ्यमिति भावः । उपमानप्रयोजकधूर्वहत्वेनेति पाठे उपमानं प्रयोजकं यस्य इति बहुव्रीहिः । ननु 'उपमानकैमर्थ्यस्योपमानाक्षेपश्चाक्षेपः' इति वामनसूत्रेणाक्षेपालंकारत्वेनोक्तत्वा-त्कथं प्रतीपत्वमत आह -- उपमानप्रातिलोम्यादिति । उपमानप्रतिकूलत्वादित्यर्थः । प्रतिकूलत्वं च तिरस्कारप्रयोजकत्वमित्युक्तम् । तथाच प्रतीपसामान्यलक्षणाक्रान्तत्वात्प्रतीपान्तर्भाव एवोचित इति भावः ॥ तदोजस इति ॥ नैषधीये नैषधवर्णनमिदम् । विधिर्ब्रह्मा तस्य नलस्यौजसः प्रतापस्य तद्यशसश्च स्थितौ सत्यामिमौ सूर्यचन्द्रौ वृथा प्रतापज्योत्स्नादेः कार्यस्य ताभ्यामेवोपपत्तेर्निरर्थकाविति चित्ते यदा यदा कुरुते तदा भानोर्विधोश्च परिवेषस्य परिधेः कै-
तवाच्छलात्कुण्डलनां वैयर्थ्यसूचिकां रेखावेष्टनां करोतीत्यन्वयः । अत्रच नायं परिवेषः किन्तु कुण्डलनेत्यपह्नुतौ कैमर्थ्यरूपप्रतीपस्याङ्गत्वात्तयोरङ्गाङ्गिभावलक्षणः संकरः । यद्यत्पापमित्यादिवञ्च्च तत्पदे वीप्साया अकरणं न दोष इति बोध्यम् । केचिद्दण्डीप्रभृतयः ॥ अनन्वयोपमेयोपमाप्रतीपानामिति ॥ प्रतीपपदेन चात्राद्यभेदत्रयमेव गृह्यते न त्वन्त्यभेदद्वयमपि । तत्रोपमितिक्रियानिष्पत्तेरभावेनोपमान्तर्भावस्यासम्भवात् । वस्तुतस्त्वाद्यभेदत्रयस्यापि नोपमान्तर्गतिर्युक्ता । चमत्कारं प्रति साधर्म्यस्य प्राधान्येनाप्रयोजकत्वात् । सामर्थ्यनिबन्धन उपमानतिरस्कार एव हि तत्र चमत्कृतिप्रयोजकतया विवक्षितो नतु साधर्म्यमेव मुखतश्चचमत्कारितया विवक्षितमिति सहृदयसाक्षिकम् । एवमनन्वयोपमेयोपमयोरपि न सादृश्यस्य चमत्कारितया प्राधान्येन विवक्षा किन्तु द्वितीयतृतीयसदृशव्यवच्छे-
दोपायतयेति न तयोरप्युपमान्तर्गतिर्युज्यते । अन्यथा सादृश्यवर्णनमात्रेणोपमान्तर्भावे 'धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः । गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥" इति व्यतिरेकालंकारस्याप्युपमान्तर्गतिः स्यात् तत्र साधर्म्य समानाधिकरणं वैधर्म्यमेव चमत्कारे प्रधानं नतु साधर्म्यमिति चेत्तुल्यमिदं प्रतीपादिष्वपीति सहृदयैराकलनीयम् । एतावदेवास्वरसबीजममिभिसंधायोक्तं केचिदिति । अन्ये वामनादयः । अत्र चाखस्वरसबीजं प्रागेवावेदितम् ॥ १६ ॥ इति प्रतीपप्रकरणम् ॥ ४ ॥
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥
केचिदनन्वयोपमाप्रतीपानामुपमाविशेषत्वेन तदन्तर्भावं मन्वते ।
------------------
[commentary]
पमानकार्यकारित्वेन । अयं चोपमानकैमर्थ्ये हेतुः । अतश्चोपमानकैमर्थ्यमित्यध्याहार्यम् । आह्लादविशेषादेरन्यलभ्यत्वेन प्रयोजनत्वासम्भवात्कैमर्थ्यमिति भावः । उपमानप्रयोजकधूर्वहत्वेनेति पाठे उपमानं प्रयोजकं यस्य इति बहुव्रीहिः । ननु 'उपमानकैमर्थ्यस्योपमानाक्षेपश्चाक्षेपः' इति वामनसूत्रेणाक्षेपालंकारत्वेनोक्तत्वा