This page has been fully proofread twice.

वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः ।
कः क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ॥१४॥
 
अत्युत्कृष्टगुणतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् ॥
 
यथावा --
 
अहमेव गुरुः सुदारुणानामिति हालाहल मास्म तात दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ १४ ॥
 
[^१] वर्ण्यनान्यस्योपमाया अनिष्पत्तिवचश्च तत् ।
[^२] मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥ १५ ॥
 
अवर्ण्य वर्ण्योपमित्यनिष्पत्तिवचनं पूर्वेभ्य उत्कर्षशालि चतुर्थं प्रतीपम् । उदाहरणे मुधापवादत्वोक्तयोपमित्य-निष्पत्तिरुद्घाटिता । यथावा --
 
आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥ १५ ॥
 
प्रतीपमुपमानस्य कैमर्थ्यमपि [^३]मन्वते ।
दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥ १६ ॥
 
उपमेयस्यैवोपमानप्रयोजनधूर्वहत्वेनोपमानकैमर्थ्यमुपमानप्रातिलोम्यात्पञ्चमं प्रतीपम् । यथावा --
 
[commentary]
 
हेत्वर्थे । अव्ययानामनेकार्थत्वात् । पूर्वोदाहरणे कान्त्येति समानधर्मोपादानमिह तु नेति भेदः ॥ १३ ॥ वर्ण्योपमेयेति ॥ अन्यस्य वर्ण्यस्य । अनादरोऽपि तथा । प्रतीपमित्यर्थः ॥ अहमेवेति ॥ सुदारुणानामतितीव्राणाम् । गुरुः श्रेष्ठः ।
तातेति सानुकम्पसम्बोधने । मास्म दृप्य इति । दर्प मा कृथा इत्यर्थः ॥ १४ ॥ वर्ये॑नान्यस्येति ॥ निरूपितत्वं तृतीयार्थः । वर्ण्यनिरूपिता यान्यस्यावर्ण्यस्योपमा तस्या इत्यर्थः । अनिष्पत्तिवचः उच्यमाना अनिष्पत्तिः । 'कृदभिहिते' इति न्यायात् । तत् प्रतीपम् ॥ मुधेति ॥ किलेति वार्तायाम् । त्वन्मुखाभमम्बुजमिति वार्ता मुधा निष्प्रयोजनोऽपवादः । अलीकार्थकत्वेनापवादस्य निष्प्रयोजनत्वम् ॥ उत्कर्षेति ॥ उपमानतिरस्कारातिशयप्रयोजकत्वरूपेत्यर्थः ॥
मुधापवादत्वोक्त्येति ॥ उक्तार्थमेतत् ॥ आकर्णयेति ॥ वचनीयमलीकतया निन्दितम् । अत एव भुवीत्युक्तम् । लोकान्तरे मुखसन्निधानेन विशेषादर्शनादलीकत्वग्रहायोगात् । सन्निधानेऽपि विशेषाग्रहणात्पामरैरित्युक्तम् । अत्र वचनीयं पामरैरित्येताभ्यामुपमितेरनिष्पत्तिः प्रकाश्यते ॥ १५ ॥ प्रतीपमिति ॥ कः अर्थः प्रयोजनं यस्य तत्तथा । अनर्थकमिति यावत् । तस्य भावः कैमर्थ्यं तदपि प्रतीपं मन्वते । आलंकारिका इति शेषः । ननूपमानस्य पद्मचन्द्रादेराह्लादविशेषरूपप्रयोजनसत्त्वात्कथमनर्थकत्वमत आह - उपमेयस्यैवेति ॥ उपमानधूर्वहत्वेनो-
 
[^१] 'वर्ण्योपमानोप'
[^२] 'मिथ्यावादो हि मुग्धाक्षि'
[^३] 'मन्यते'.