2023-03-09 09:20:56 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः ।
  
  
  
कः क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ॥१४॥
   
  
  
  
अत्युत्कृष्टगुणतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् ॥
   
  
  
  
यथावा --
   
  
  
  
अहमेव गुरुः सुदारुणानामिति हालाहल मास्म तात दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ १४ ॥
   
  
  
  
[^१] वर्ण्यनान्यस्योपमाया अनिष्पत्तिवचश्च तत् ।
[^२] मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥ १५ ॥
  
  
  
  
अवर्ण्य वर्ण्योपमित्यनिष्पत्तिवचनं पूर्वेभ्य उत्कर्षशालि चतुर्थथं प्रतीपम् ।
  
  
  
   उदाहरणे मुधापवादत्वोत्क्तयोपमित्य -निष्पत्तिरुद्घाटिता । यथावा --
  
  
  
  
  
  
  
आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥ १५ ॥
  
  
  
  
प्रतीपमुपमानस्य कैमर्थ्यमपिमँ[^३]मन्वते ।
  
  
  
  
  
  
  
दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥ १६ ॥
  
  
  
  
उपमेयस्यैवोपमानप्रयोजनधूर्वहत्वेनोपमानकैमर्थ्यमुपमानप्रातिलोम्यात्प-
  
  
  
  ञ्चमं प्रतीपम् । यथावा -
  
  
  
  -
  
  
  
   
  
  
  
।
   
  
  
  
।
  
  
  
   
  
  
  
commentary
   
  
  
  
हेत्वर्थे । अव्ययानामनेकार्थत्वात् । पूर्वोदाहरणे कान्त्येति समानधर्मोपादानमिह
  
  
  
   तु नेति भेदः ॥ १३ ॥ वर्ण्योपमेयेति ॥ अन्यस्य वर्ण्यस्य । अनादरोऽपि
  
  
  
   तथा । प्रतीपमित्यर्थः ॥ अहमेवेति ॥ सुदारुणानामतितीव्राणाम् । गुरुः श्रेष्ठः ।
  
  
  
तातेति सानुकम्पसंसम्बोधने । मास्म दृप्य इति । दर्प मा कृथा इत्यर्थः ॥ १४ ॥
  
  
  
व वर्ये॑नान्यस्येति ॥ निरूपितत्वं तृतीयार्थः । वर्ण्यनिरूपिता यान्यस्यावर्ण्य -
  
  
  
  स्योपमा तस्या इत्यर्थः । अनिष्पत्तिवचः उच्यमाना अनिष्पत्तिः । 'कृदभिहिते'
  
  
  
   इति न्यायात् । तत् प्रतीपम् ॥ मुधेति ॥ किलेति वार्तायाम् । त्वन्मुखाभ-
  
  
  
  मम्बुजमिति वार्ता मुधा निष्प्रयोजनोऽपवादः । अलीकार्थकत्वेनापवादस्य नि-
  
  
  
  ष्प्रयोजनत्वम् ॥ उत्कर्षेति ॥ उपमानतिरस्कारातिशय प्रयोजकत्वरूपेत्यर्थः ॥
  
  
  
मुधापवादत्वोक्त्येति ॥ उक्तार्थमेतत् ॥ आकर्णयेति ॥ वचनीयमलीकतया
  
  
  
   निन्दितम् । अत एव भुवीत्युक्तम् । लोकान्तरे मुखसंसन्निधानेन विशेषादर्शनाद-
  
  
  
  लीकत्वग्रहायोगात् । संसन्निधानेऽपि विशेषाग्रहणात्पामरैरित्युक्तम् । अत्र वचनीयं
  
  
  
   पामरै रित्येताभ्यामुपमितेरनिष्पत्तिः प्रकाश्यते ॥ १५ ॥ प्रतीपमिति ॥ कः अर्थः
  
  
  
   प्रयोजनं यस्य तत्तथा । अनर्थकमिति यावत् । तस्य भावः कैमर्थ्ययं तदपि प्रतीपं
  
  
  
   मन्वते । आलंकारिका इति शेषः । ननूपमानस्य पद्मचन्द्रादेराह्लादविशेषरूपप्रयो-
  
  
  
  जनसत्त्वात्कथमनर्थकत्वमत आह - उपमेयस्यैवेति ॥ उपमानधूर्वहत्वेनो-
  
  
  
  
  
  
  
[^१] 'वर्ण्योपमानोप'. 
  
  
  
[^२] 'मिथ्यावादो हि मुग्धाक्षि'. 
  
  
  
[^३] 'मन्यते'.
   
  
  
  
  -
  
  
  
   
  
  
  
  
  
  
  
  
कः क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ॥१४॥
अत्युत्कृष्टगुणतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् ॥
यथावा --
अहमेव गुरुः सुदारुणानामिति हालाहल मास्म तात दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ १४ ॥
[^१] वर्ण्यनान्यस्योपमाया अनिष्पत्तिवचश्च तत् ।
[^२] मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥ १५ ॥
अवर्ण्य वर्ण्योपमित्यनिष्पत्तिवचनं पूर्वेभ्य उत्कर्षशालि चतुर्
आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥ १५ ॥
प्रतीपमुपमानस्य कैमर्थ्यमपि
दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥ १६ ॥
उपमेयस्यैवोपमानप्रयोजनधूर्वहत्वेनोपमानकैमर्थ्यमुपमानप्रातिलोम्यात्प
।
।
commentary
हेत्वर्थे । अव्ययानामनेकार्थत्वात् । पूर्वोदाहरणे कान्त्येति समानधर्मोपादानमिह
तातेति सानुकम्प
व
मुधापवादत्वोक्त्येति ॥ उक्तार्थमेतत् ॥ आकर्णयेति ॥ वचनीयमलीकतया
[^१] 'वर्ण्योपमानोप'
[^२] 'मिथ्यावादो हि मुग्धाक्षि'
[^३] 'मन्यते'.