This page has not been fully proofread.

१२
 
[ प्रतीपालंकारः
 
कुवलयानन्दः ।
 
यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
स्त्वत्सादृश्यविनोदमात्रमपि
 
मे दैवेन न क्षम्यते ॥ १२ ॥
 
अन्योपमेयलाभेन वैर्ण्यस्यानादरश्च तत् ।
 
अलं गर्वेण ते वक्र कान्त्या चन्द्रोऽपि तादृशः ॥ १३
 
अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसादृश्यमसहमानस्योपमेयं किंचि
प्रदर्य तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविश्
पशालि । यथावा-
गर्वमसंवाह्यमिमं लोचनयुगुलेन किं वहसि भने ।
 
सन्तीहशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥ १३ ॥
 
-
 
-
 
नोपमेयभावस्य वैपरीत्यादिति यथाश्रुतरीत्यैवं विधप्रातिलोम्यस्य तृतीयपञ्चमप्रत
पमेदाव्यापित्वेन प्रतीपपदप्रवृत्तिनिमित्तत्वायोगादिति । एवं चोक्तप्रकारेणोपमा
प्रातिकूल्यस्य प्रतीपपद प्रवृत्तिनिमित्तत्वकथनेन प्रसिद्धोपमानप्रतिकूलधर्मः प्रती
मिति प्रतीपपञ्चकसाधारणं सामान्यलक्षणमिति सूचितम् । अतएव पञ्चमप्रत
पव्याख्यानावसरे वक्ष्यति — उपमानप्रातिलोम्यादिति । प्रतिकूलत्वं च तिरस्का
प्रयोजकत्वम् । एतस्य च सकलप्रतीपभेदसाधारण्यं तत्र तत्र स्फुटीकरिष्यते-
यथावेति ॥ प्रोषितस्य प्रियां प्रति वियोगवेदना निवेदनमिदम् । अयि प्रिरं
त्वदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपि मम दैवेन न क्षम्य
ते ॥ एतदेव दर्शयति — यदित्यादिना ॥ त्वनेत्रयोः समाना साधारणी क
न्तिः शोभा यस्य तथाविधं यदिन्दीवरं तत्सलिले मनम् । वर्षर्तुना जलवृद्धेः
तव मुखस्य च्छायया कान्त्या अनुकारी सदृशः शशी मेघैरन्तरितस्तिरोहितः
येऽपीत्यपिर्भिन्नक्रमः । त्वद्गमनसदृशगतयो ये राजहंसास्तेऽपि गता इति । अ
कान्तीत्यादिधर्मोपादानात्पूर्वोदाहरणवैलक्षण्यं बोध्यम् । ननूपमानादुपमेयस्य
धिक्यवर्णनारूपाच्यतिरेकालंकारादस्य को भेदः । उच्यते । तत्र वैधर्म्य प्रयुत्
मुपमेयस्याधिक्यं विवक्षितम्' इह तूपमानतामात्र प्रयुक्तत्वात्साधर्म्य प्रयुक्त मि
॥ १२॥ प्रतीपान्तरमाह - अन्योपमेयेति ॥ अन्यदवर्ण्यमुपमानं तद्रूपं यदु
मेयं तस्य लाभेन वर्णनीयस्य मुखादेरनादरो गर्वपरिहारोऽपि तत् प्रतीपमित्यर्थः
तस्य गर्वप्रसक्तिपूर्वकत्वेनोपमेयताया अपि पूर्वमप्रायोपमानतिरस्कृति विशेष
योजकत्वादिति भावः । अतएव लाभेनेत्युक्तं न तु सत्त्वेनेति । अप्राप्तप्राप्तेलं
भशब्दार्थत्वात् ॥ विच्छित्तिविशेषेति ॥ चमत्कारोत्कर्ष इत्यर्थः । उक्तर्र
त्योपमानतिरस्कारातिशयप्रतीतेरिति भावः ॥ गर्वमिति ॥ असंवाह्यं संवा
नायोग्यम् । अपरिमितमिति यावत् । भद्रे शोभने इति संबोधनम् । नन्वि
१ 'वर्णस्य'. २ 'चन्द्रो भवादृशः '.
 
-
 
-