2023-03-03 10:59:29 by Bharadwajraki
This page has been fully proofread once and needs a second look.
यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ १२ ॥
अन्योपमेयलाभेन [^१]वैर्ण्यस्यानादरश्च तत् ।
अलं गर्वेण ते वक्र कान्त्या [^२]चन्द्रोऽपि तादृशः ॥ १३ ॥
अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसादृश्यमसहमानस्योपमेयं किंचित्प्रदर्य तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविश्शालि । यथावा --
गर्वमसम्वाह्यमिमं लोचनयुगुलेन किं वहसि भद्रे ।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥ १३ ॥
Commentary
नोपमेयभावस्य वैपरीत्यादिति यथाश्रुतरीत्यैवं विधप्रातिलोम्यस्य तृतीयपञ्चमप्रतपमेदाव्यापित्वेन प्रतीपपदप्रवृत्तिनिमित्तत्वायोगादिति । एवं चोक्तप्रकारेणोपमाप्रातिकूल्यस्य प्रतीपपदप्रवृत्तिनिमित्तत्वकथनेन प्रसिद्धोपमानप्रतिकूलधर्मः प्रतीमिति प्रतीपपञ्चकसाधारणं सामान्यलक्षणमिति सूचितम् । अतएव पञ्चमप्रतपव्याख्यानावसरे वक्ष्यति -- उपमानप्रातिलोम्यादिति । प्रतिकूलत्वं च तिरस्कारप्रयोजकत्वम् । एतस्य च सकलप्रतीपभेदसाधारण्यं तत्र तत्र स्फुटीकरिष्यते -- यथावेति ॥ प्रोषितस्य प्रियां प्रति वियोगवेदनानिवेदनमिदम् । अयि प्रिरं त्वदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपि मम दैवेन न क्षम्यते ॥ एतदेव दर्शयति - - यदित्यादिना ॥ त्वनेत्रयोः समाना साधारणी कान्तिः शोभा यस्य तथाविधं यदिन्दीवरं तत्सलिले मनम् । वर्षर्तुना जलवृद्धेः तव मुखस्य च्छायया कान्त्या अनुकारी सदृशः शशी मेघैरन्तरितस्तिरोहितः येऽपीत्यपिर्भिन्नक्रमः । त्वद्गमनसदृशगतयो ये राजहंसास्तेऽपि गता इति । अकान्तीत्यादिधर्मोपादानात्पूर्वोदाहरणवैलक्षण्यं बोध्यम् । ननूपमानादुपमेयस्यधिक्यवर्णनारूपाच्यतिरेकालंकारादस्य को भेदः । उच्यते । तत्र वैधर्म्यप्रयुत्मुपमेयस्याधिक्यं विवक्षितम्' इह तूपमानतामात्र प्रयुक्तत्वात्साधर्म्य प्रयुक्तमि ॥ १२॥ प्रतीपान्तरमाह -- अन्योपमेयेति ॥अन्यदवर्ण्यमुपमानं तद्रूपं यदुपमेयं तस्य लाभेन वर्णनीयस्य मुखादेरनादरो गर्वपरिहारोऽपि तत् प्रतीपमित्यर्थः तस्य गर्वप्रसक्तिपूर्वकत्वेनोपमेयताया अपि पूर्वमप्रायोपमानतिरस्कृतिविशेषयोजकत्वादिति भावः । अतएव लाभेनेत्युक्तं न तु सत्त्वेनेति । अप्राप्तप्राप्तेलं भशब्दार्थत्वात् ॥ विच्छित्तिविशेषेति ॥ चमत्कारोत्कर्ष इत्यर्थः । उक्तर्रत्योपमानतिरस्कारातिशयप्रतीतेरिति भावः ॥ गर्वमिति ॥ असंवाह्यं संवानायोग्यम् । अपरिमितमिति यावत् । भद्रे शोभने इति संबोधनम् । नन्वि-
[^१ 'वर्णस्य']
[^२ 'चन्द्रो भवादृशः]