This page has not been fully proofread.

प्रतीपालंकारः ४ ] अलंकारचन्द्रिकासहितः ।
 
११
 
द्वयोः पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम् । धर्मा-
र्थयोः कस्यचित्केन चित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थ सिद्धमपि मु
खतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदं फलति ॥ यथावा-
खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥
 
पूर्वत्र पूर्ण श्रीरिति धर्म उपात्तः । इह निर्मलत्वादिधर्मो नोपात्त इति भेदः ।
उदाहरणद्वयेऽपि प्रकृतयोरेवोपमानोपमेयत्वकल्पनम् । राज्ञि धर्मार्थसमृद्धेः
शरदि गगनसलिलादिनैर्मल्यस्य च वर्णनीयत्वात् । प्रकृताप्रकृतयोरप्येपा
संभवति ॥ यथा-
-
 
गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः ।
निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥ ११ ॥
 
प्रतीपालंकारः ४
प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ।
त्वल्लोचनसमं पद्मं त्वद्वसदृशो विधुः ॥ १२ ॥
प्रसिद्धोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम् । यथावा-
-
 
-
 
ननूपमाप्रतीपोभयरूपाया उपमाद्वयरूपाया वा उपमेयोपमाया अलंकारान्तरत्वे
किं बीजमित्यत आह – द्वयोरिति ॥ तथा चार्थविशेषद्योतकतया चमत्कृति-
वैलक्षण्यमेव तत्र बीजमिति भावः । कथं तृतीयसदृशव्यवच्छेदलाभस्तत्राह -
धर्मार्थयोरिति ॥ धर्मार्थयोर्मध्य इत्यर्थः । मुखतः शब्देन । तथाच 'प्राप्तस्य
पुनर्वचनं तदितरपरिसंख्यार्थम्' इति न्यायादिहापि तृतीयसदृशव्यावृत्तिलाभ इति
भावः ॥ खमिवेति ॥ शरद्वर्णन मिदम् । खमाकाशमिव जलं कालुष्यापगमेन
निर्मलत्वातिशयात् । शेषं स्पष्टम् । निर्मलवादीत्यादिपदेन शैत्यातिशयपरिग्रहः ॥
गिरिरिवेति ॥ अत्र गजः प्रकृतः । अयमिति प्रकृतपरामर्शिसर्वनाम निर्दिष्ट-
त्वात् । अत एवोपक्रमादग्रेऽप्यस्य मदधारेत्यन्वयो बोध्यः । अत्र पूर्वार्धे उच्च-
कैर्विभातीति समानधर्म उपात्तः । उत्तरार्धे च स्रवतीति स उक्त इति दिक्
॥ ११ ॥ इत्युपमेयोपमाप्रकरणम् ॥ ३ ॥
 
प्रतीपमिति ॥ प्रतीप मिति लक्ष्य निर्देशः । ननूपमानोपमेयभावस्य वैवक्षिकत
या मुखादेरप्युपमानत्वसंभवाञ्चन्द्र इव मुखमित्युपमायातिव्याप्तिरित्यत आह -
प्रसिद्धेति ॥ प्रसिद्धोपमानस्योपमेयभाव उपमेयत्वं प्रतीपं प्रतीपपदवाच्यम् ।
कुतः । प्रातिलोम्यात्प्रसिद्धोपमानप्रतिकूलत्वात् । उपमेयभावप्रातिलोम्यादित्यवि-
सर्गपाठेऽपि प्रसिद्धोपमानस्य य उपमेयभावस्तस्य प्रातिलोम्यादुपमानप्रतिकूलवा-
दुपमानस्योपमेयत्वकल्पनं प्रतीपमित्युच्यत इति व्याख्येयम् । नतु प्रसिद्धस्योपमा-
१ 'मानस्याप्युपमेयत्व'.