This page has been fully proofread twice.

द्वयोः पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम् । धर्मार्थयोः कस्यचित्केनचित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदं फलति ॥ यथावा --
 
खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥
 
पूर्वत्र पूर्णश्रीरिति धर्म उपात्तः । इह निर्मलत्वादिधर्मो नोपात्त इति भेदः । उदाहरणद्वयेऽपि प्रकृतयोरेवोपमानोपमेयत्वकल्पनम् । राज्ञि धर्मार्थसमृद्धेः शरदि गगनसलिलादिनैर्मल्यस्य च वर्णनीयत्वात् । प्रकृताप्रकृतयोरप्येषा सम्भवति ॥ यथा --
 
गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः ।
निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥ ११ ॥
 
-------------
 
प्रतीपालंकारः ४
 
प्रतीपमु[^१]पमानस्योपमेयत्वप्रकल्पनम् ।
त्वल्लोचनसमं पद्मं त्वद्वक्रसदृशो विधुः ॥ १२ ॥
प्रसिद्धोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम् । यथावा --
 
[Ccommentary]
 
ननूपमाप्रतीपोभयरूपाया उपमाद्वयरूपाया वा उपमेयोपमाया अलंकारान्तरत्वे किं बीजमित्यत आह -- द्वयोरिति ॥ तथा चार्थविशेषद्योतकतया चमत्कृतिवैलक्षण्यमेव तत्र बीजमिति भावः । कथं तृतीयसदृशव्यवच्छेदलाभस्तत्राह -- धर्मार्थयोरिति ॥ धर्मार्थयोर्मध्य इत्यर्थः । मुखतः शब्देन । तथाच 'प्राप्तस्य पुनर्वचनं तदितरपरिसंख्यार्थम्' इति न्यायादिहापि तृतीयसदृशव्यावृत्तिलाभ इति भावः ॥ खमिवेति ॥ शरद्वर्णनमिदम् । खमाकाशमिव जलं कालुष्यापगमेन निर्मलत्वातिशयात् । शेषं स्पष्टम् । निर्मलवादीत्यादिपदेन शैत्यातिशयपरिग्रहः ॥ गिरिरिवेति ॥ अत्र गजः प्रकृतः । अयमिति प्रकृतपरामर्शिसर्वनामनिर्दिष्टत्वात् । अत एवोपक्रमादग्रेऽप्यस्य मदधारेत्यन्वयो बोध्यः । अत्र पूर्वार्धे उच्चकैर्विभातीति समानधर्म उपात्तः । उत्तरार्धे च स्रवतीति स उक्त इति दिक् ॥ ११ ॥ इत्युपमेयोपमाप्रकरणम् ॥ ३ ॥
 
प्रतीपमिति ॥ प्रतीपमिति लक्ष्य निर्देशः । ननूपमानोपमेयभावस्य वैवक्षिकतया मुखादेरप्युपमानत्वसंभवाञ्चन्द्र इव मुखमित्युपमायातिव्याप्तिरित्यत आह -- प्रसिद्धेति ॥ प्रसिद्धोपमानस्योपमेयभाव उपमेयत्वं प्रतीपं प्रतीपपदवाच्यम् ।
कुतः । प्रातिलोम्यात्प्रसिद्धोपमानप्रतिकूलत्वात् । उपमेयभावप्रातिलोम्यादित्यविसर्गपाठेऽपि प्रसिद्धोपमानस्य य उपमेयभावस्तस्य प्रातिलोम्यादुपमानप्रतिकूलवादुपमानस्योपमेयत्वकल्पनं प्रतीपमित्युच्यत इति व्याख्येयम् । नतु प्रसिद्धस्योपमा-
[‍^१] 'मानस्याप्युपमेयत्व'