This page has been fully proofread once and needs a second look.

स्वेन साधर्म्यं नान्वेतीति व्युत्पत्तेः । अनन्वयिनोऽप्यर्थस्याभिधानं सहशान्तरव्यवच्छेदेनानुपमत्वद्योतनाय । इन्दुरिन्दुरिव श्रीमानित्युक्ते श्रीमत्वेन चन्द्रस्य नान्यः सदृशोऽस्तीति सदृशान्तरव्यवच्छेदो लक्ष्यते । ततश्च स्वेनापि सादृश्यासम्भवादनुपमेयत्वे पर्यवसानम् ॥ यथावा --
 
गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव ॥
 
पूर्वोदाहरणे श्रीमत्वस्य धर्मस्योपादानमस्ति । इह तु गगनादिषु वैपुल्यादेर्धर्मस्य तन्नास्तीति विशेषः ॥ १० ॥
 
उपमेयोपमालंकारः ३
 
पर्यायेण द्वयोस्तश्चेदुपमेयोपमा मता ।
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥ ११ ॥
 
Commentary
 
नान्वेतीति ॥ न सम्बध्यत इत्यर्थः । साधर्म्यस्य भेदघटितत्वादिति भावः । नन्वेवं सत्यसम्बद्धप्रलापत्वापत्तिरित्यत आह -- अनन्वयिनोऽपीति ॥ बाधितस्यापीत्यर्थः । अर्थस्य साधर्म्यस्य । अभिधानमाहार्यारोपरूपतया प्रतिपादनं । सदृशान्तरव्यवच्छेदेन सदृशान्तरव्यावृत्तिबोधद्वारेण । एतदेव विशदयति --इन्दुरित्यादिना ॥ इत्थंच सदृशान्तरव्यावृत्तिसूचनद्वारानुपमत्वद्योतनरूपप्रयोजनवत्त्वादापाततो रुद्ररोदनार्थवादवद्वारमात्रतया सादृश्यप्रतिपादनेऽपि नासम्बद्धप्रलापतापत्तिरिति भावः । उदाहरणान्तरमाह -- यथावेति ॥ गगनाकारं गगनसदृशम् । इवेत्यतः प्राक् युद्धमित्यध्याहार्यम् । उदाहरणान्तरप्रदर्शने बीजमाह -- पूर्वोदाहरणेति ॥ वैपुल्यादेरित्यादिपदाद्गाम्भीर्यदारुणत्वयोः संग्रहः ॥ १० ॥ इत्यनन्वयालंकारप्रकरणम् ॥ २ ॥
अथोपमेयोपमां लक्षयति - पर्यायेणेति ॥ अयौगपद्येनेत्यर्थः । वाक्यभेदेनेति यावत् । तत् उपमानोपमेयत्वम् । विवक्ष्यत इति शेषोऽत्रापि बोध्यः । उपमेयोपमेति लक्ष्यनिर्देशः । उपमेयेनोपमेति व्युत्पत्तेः । धर्मोऽर्थ इवेत्युदाहरणम् । अर्थो धनम् । पूर्णश्रीः पूर्णसमृद्धिः । अत्र च धर्मार्थयोर्द्वयोर्वाक्यभेदेनोपमानत्वमुपमेयत्वं च वर्णितम् । तत्राद्यवाक्येऽर्थस्योपमानत्वं धर्मस्योपमेयत्वम् । द्वितीये तु तद्विपर्यासेन धर्मस्योपमानत्वमर्थस्योपमेयत्व मिति लक्षणसमन्वयः । उपमानोपमेयत्वमात्रोक्तावनन्वयेऽतिव्याप्तेर्द्वयोरित्युक्तम् । एवमपि 'समत्वं शरदि प्रापुरहो
कुमुदतारकाः' इत्युभयविश्रान्तसादृश्यादुपमायामतिव्याप्तिः । तत्र द्वयोः कुमुदतारकयोः सादृश्याश्रयत्वरूपोपमेयत्वस्येव तत्प्रतियोगिवरूपस्योपमानत्वस्याप्यर्थतः प्रतीतेरतः पर्यायेणेत्युक्तम् । ननु 'भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला' इति रशनोपमायामतिव्याप्तिः । तत्र द्वयोर्मतिचेष्टयोर्वाक्य-
भेदेनोपमानोपमेयत्ववर्णनादिति चेन्न । द्वयोरित्यनेन परस्परमुपमानोपमेयत्वस्य विवक्षितत्वात् । अन्यथा पर्याय- पदेनैवानन्वयवारणे तद्वैयर्थ्यापत्तेरिति संक्षेपः ॥