2023-02-17 12:58:37 by ambuda-bot
This page has not been fully proofread.
अनन्वयालंकारः २ ] अलंकार चन्द्रिकासहितः ।
९
नात्प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां वाचकोपमानलोपः ।
सर्वोऽप्ययं लोपश्छप्रत्ययविधायकशास्त्रकृतः । अवितर्कितसंभवमिति साधा-
रणधर्मस्यानुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां
धर्मोपमानवाचकलोप इति सूक्ष्मया दृष्ट्यावधारितव्यम् । एतेषामुदाहरणा-
न्तराणि विस्तरभयान्न लिख्यते ॥ ७ ॥ ८ ॥ ९ ॥
अनन्वयालंकारः २
उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १० ॥
एकस्यैव वस्तुन उपमानोपमेयत्ववर्णनमनन्वयः । वर्ण्यमानमपि स्वस्
स्येत्यर्थः । इदंच काकाग्रमनमिव तालपतनमिवेति महाभाष्यगत विग्रहवाक्य-
विरोधशङ्कापरिहारायोक्तम् । समागमस्य तादृशक्रियाद्वयाभिन्नत्वेनोक्तयुक्त्या
तस्योक्तार्थ एव पर्यवसानात् विशिष्टोपमायां विशेषणोपमावगतिवत्समागमोप-
मायामपि तदवयवक्रिययोर्यथायोगं गम्यमानामुपमामभिप्रेत्य महाभाष्यकृतां
तादृशविग्रहवाक्यप्रणयनमित्याशयः ॥ धर्मस्यानुपादान इति ॥ तत्स्थाने
'अभवत्किं ब्रवीमि ते' इति पाठ इति भावः ॥ ७ ॥ ८ ॥ ९ ॥
इति श्रीमत्तत्सदुपाख्य रामभट्टसूरिवरात्मजवैद्यनाथविरचितायामलंकारचन्द्रि-
काख्यायां कुवलयानन्दव्याख्यायामुपमाप्रकरणं संपूर्णम् ॥ १ ॥
यद्यप्युपमान निरूपणानन्तरं तन्मूलालंकारेषु संभवत्सादृश्योपमेयोपमैव प्रथमं
निरूपयितुमुचिता न लारोपितसादृश्य निबन्धनोऽनन्वयस्तथापि तं द्वितीयसदृश-
व्यवच्छेदफलकतया तृतीयसदृशव्यवच्छेदफलिकामुपमेयोपमामपेक्ष्य शीघ्रोपस्थि-
तिकमभिप्रेत्य प्रथमं निरूपयति - उपमानोपमेयत्वमिति । उपमानत्वमुपमे-
यत्वं चेत्यर्थः । द्वन्द्वान्ते श्रूयमाणात् । विवक्ष्यत इति च शेषः । एवं चैकस्यैव
वस्तुनो यदुपमानत्वमुपमेयत्वं च विवक्ष्यते तदनन्वय इत्यन्वयः । असंभवशङ्का-
निरासाय मध्ये उदाहरणोक्तिः । ननूक्तलक्षणस्य 'भणितिरिव मतिर्मतिरिव चेष्टा'
इत्यादिरशनोपमायामतिव्याप्तिः । तत्र मत्यादेरेकस्यैव वस्तुन उपमानत्वस्योपमेय-
त्वस्य च वर्णनात् । अथैकस्य वस्तुनो यदेकनिरूपितमुपमानवमुपमेयत्वं चेति
विवक्षितमेकपदस्यावृत्तिकल्पनात् । इत्थंच रशनोपमायां मत्यादेचेष्टादि निरूपि-
तमुपमानत्वं भणित्या दिनिरूपितं तूपमेयत्वमित्येकनिरूपितोपमानोपमेयत्वविर-
हान्नातिव्याप्तिरित्युच्यते तदा 'खमिव जलं जलमिव खम्' इत्युपमेयोपमाया-
मतिव्याप्तिः । तत्रैकस्यैव वस्तुनो गगनस्यैकजलनिरूपितस्योपमानत्वस्योपमेयत्वस्य
च वर्णनादिति चेन्मैवम् । एकस्यैवेति विरोधयोतकैव कारबलेन स्वाश्रयनिरूपित-
योरुपमानोपमेयत्वयोर्लाभेन क्वाप्यतिप्रसङ्गाभावात् । अस्ति हि 'इन्दुरिन्दुरिव'
इत्यनन्वये उपमानत्वमुपमेयत्वं च स्वाश्रयेन्दुनिरूपितं नतु रशनोपमायामुपमेयो-
पमायां वेति संक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह-वर्ण्यमानमपीति ॥
कुव. ३
-