This page has been fully proofread twice.

नात्प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां वाचकोपमानलोपः । सर्वोऽप्ययं लोपश्छप्रत्ययविधायकशास्त्रकृतः । अवितर्कितसम्भवमिति साधारणधर्मस्यानुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचकलोप इति सूक्ष्मया दृष्ट्यावधारितव्यम् । एतेषामुदाहरणान्तराणि विस्तरभयान्न लिख्यन्ते ॥ ७ ॥ ८ ॥ ९ ॥
 
अनन्वयालंकारः २
 
उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १० ॥
 
एकस्यैव वस्तुन उपमानोपमेयत्ववर्णनमनन्वयः । वर्ण्यमानमपि स्वस्य
 
[commentary]
 
स्येत्यर्थः । इदंच काकागमनमिव तालपतनमिवेति महाभाष्यगतविग्रहवाक्यविरोधशङ्कापरिहारायोक्तम् । समागमस्य तादृशक्रियाद्वयाभिन्नत्वेनोक्तयुक्त्या तस्योक्तार्थ एव पर्यवसानात् विशिष्टोपमायां विशेषणोपमावगतिवत्समागमोपमायामपि तदवयवक्रिययोर्यथायोगं गम्यमानामुपमामभिप्रेत्य महाभाष्यकृतां तादृशविग्रहवाक्यप्रणयनमित्याशयः ॥ धर्मस्यानुपादान इति ॥ तत्स्थाने 'अभवत्किं ब्रवीमि ते' इति पाठ इति भावः ॥ ७ ॥ ८ ॥ ९ ॥
 
इति श्रीमत्तत्सदुपाख्यरामभट्टसूरिवरात्मजवैद्यनाथविरचितायामलंकारचन्द्रिकाख्यायां कुवलयानन्दव्याख्यायामुपमाप्रकरणं संम्पूर्णम् ॥ १ ॥
 
---------------------
 
यद्यप्युपमाननिरूपणानन्तरं तन्मूलालंकारेषु सम्भवत्सादृश्योपमेयोपमैव प्रथमं निरूपयितुमुचिता न त्वारोपितसादृश्यनिबन्धनोऽनन्वयस्तथापि तं द्वितीयसदृशव्यवच्छेदफलकतया तृतीयसदृशव्यवच्छेदफलिकामुपमेयोपमामपेक्ष्य शीघ्रोपस्थितिकमभिप्रेत्य प्रथमं निरूपयति -- उपमानोपमेयत्वमिति । उपमानत्वमुपमेयत्वं चेत्यर्थः । द्वन्द्वान्ते श्रूयमाणात् । विवक्ष्यत इति च शेषः । एवं चैकस्यैव वस्तुनो यदुपमानत्वमुपमेयत्वं च विवक्ष्यते तदनन्वय इत्यन्वयः । असम्भवशङ्कानिरासाय मध्ये उदाहरणोक्तिः । ननूक्तलक्षणस्य 'भणितिरिव मतिर्मतिरिव चेष्टा' इत्यादिरशनोपमायामतिव्याप्तिः । तत्र मत्यादेरेकस्यैव वस्तुन उपमानत्वस्योपमेयत्वस्य च वर्णनात् । अथैकस्य वस्तुनो यदेकनिरूपितमुपमानत्वमुपमेयत्वं चेति
विवक्षितमेकपदस्यावृत्तिकल्पनात् । इत्थंच रशनोपमायां मत्यादेश्चेष्टादिनिरूपितमुपमानत्वं भणित्यादिनिरूपितं तूपमेयत्वमित्येकनिरूपितोपमानोपमेयत्वविरहान्नातिव्याप्तिरित्युच्यते तदा 'खमिव जलं जलमिव खम्' इत्युपमेयोपमायामतिव्याप्तिः । तत्रैकस्यैव वस्तुनो गगनस्यैकजलनिरूपितस्योपमानत्वस्योपमेयत्वस्य च वर्णनादिति चेन्मैवम् । एकस्यैवेति विरोधद्योतकैवकारबलेन स्वाश्रयनिरूपितयोरुपमानोपमेयत्वयोर्लाभेन क्वाप्यतिप्रसङ्गाभावात् । अस्ति हि 'इन्दुरिन्दुरिव' इत्यनन्वये उपमानत्वमुपमेयत्वं च स्वाश्रयेन्दुनिरूपितं नतु रशनोपमायामुपमेयोपमायां वेति संक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह -- वर्ण्यमानमपीति ॥
 
कुव. ३