2023-03-02 09:53:04 by Bharadwajraki
This page has been fully proofread twice.
कान्त्या स्मरवधूयन्तीत्यत्र वाचकोपमेयलोपः । अत्र कान्त्येति विशेषणसामर्थ्यात्स्वात्मानं कामवधूमिवाचरन्तीत्यर्थस्य गम्यमानतया स्वात्मन उपमेयस्य सहोपमावाचकेनानुपादानात्स त्वैच्छिकः । स्वात्मानं स्मरवधूयन्तीत्युपमेयोपा-दानस्यापि सम्भवात् । काकतालीयमित्यत्र काकतालशब्दौ वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ, तेन काकागमनमिव तालपतनमिव काकतालमितीवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासः । उभयत्रोपमेयं स्वस्य
क्वचिद्गमनं तत्रैव रहसि तन्व्या अवस्थानं च । तेन स्वस्य तस्याश्च समागमः काकतालसमागमसदृश इति फलति । ततः काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे 'समासाच्च तद्विषयात्' इति सूत्रेण 'इवे प्रतिकृतौ' इत्यधिकारस्थेन छप्रत्ययः । तथाच पतनदलितं तालफलं यथा काकेनोपभुक्तमेवं रहोदर्शनक्षुभितहृदया तन्वी स्वेनोपभुक्तेति तदर्थः । ततश्चात्र काकागमनतालपतनसमागमरूपस्य काककृततालफलोपभोगरूपस्य चोपमानस्यानुपादा-
Commentary
स्मरवधूयन्तीत्यत्रेति ॥ ननु 'उपमानादाचारे' इति कर्मभूतादुपमानादाचारे क्यचो विधानात्स्मरवधूं रतिमिवाचरन्तीत्यवगमेऽप्यात्मानमन्यां वेति कथं निर्णयस्तत्राह -- विशेषणेति ॥ रत्यनुरूपाचरणस्य कान्तिकरणकत्वरूपविशेषणसामर्थ्यादित्यर्थः । कान्तेः स्वरसतः स्वीयत्वावगमादिति भावः । न चात्मन उपमेयस्य
तन्वीपदेनोपादानात्कथं लोप इति वाच्यम् । तस्या द्वितीयान्ततया कर्मभूतोपमेयासमर्पकत्वादात्मानमित्यध्याहतेनैव तद्बोधात् । अत्रच स्मरवधूपदेन स्मरवधूसादृश्यं लक्ष्यते । तस्य च प्रयोजकत्वसंसर्गेणाभेदेन वाचारेऽन्वयः । तथाच स्मरवधूसादृश्याभिन्न आत्मकर्मको य आचारस्तदाश्रयस्तन्वीति बोधः ॥ काकतालीयेति ॥ वृत्तिविषये समासविषये ॥ ज्ञापकादिति ॥ इवार्थे समासाभावे तद्विषयादित्यनेनेवार्थविषयसमासानुवादोऽनुपपन्नस्तज्ज्ञापक इत्यर्थः । उभयत्र काकागमनतालपतनयोः । उपमेयमित्यनन्तरं क्रमेणेति शेषः ॥ तेनेति ॥ काकतालसमवेतक्रियापरयोः काकतालपदयोरिवार्थे समासेनेत्यर्थः । काकतालसमागमेति । अयं भावः । काकागमनतालपतनयोरुपमानत्वे तदुपमेययोः स्वीयगमनतन्व्यवस्थानयोः पृथगनुपात्तत्वेनोपमेयतयान्वयायोगात्काकतालसमागम एवोपमानम् । इत्थंच काकतालसमागमसदृशं काकतालपदार्थस्तस्य चाभेदेन स्वीयतन्वीसमागमरूप उपमेयेऽन्वय इति ॥ तत इति ॥ तादृशसमासोत्तरमित्यर्थः ॥ इति तदर्थ इति ॥ काकतालपदलक्षितस्य काककृततालफलोपभोगसदृशस्याभेदेन
तन्वीरतिलाभरूपेणोपमेयेनान्वयादिति भावः । अत्र पतनदलितमिति रहोदर्शनक्षुभितहृदयेति च बिम्बप्रतिबिम्बभावापन्नधर्मस्वरूपकथनं नत्वेवमन्वयाकार इति बोध्यम् । नच सकृदुच्चारिताभ्यां काकतालपदाभ्यां कथमुपमानद्वयावगम इति वाच्यम् । अनुभवानुसार्यनुशासनेन व्युत्पत्तिवैचित्र्यस्य स्फुटं प्रतिपत्तेरिति ॥ एवं
दुरूहत्वात्पद्यं व्याख्याय तत्रोपमानलुप्तादींचतुरोऽपि भेदान्प्रदर्शयितुमाह -- ततश्चेति ॥ काकागमनेत्यादि ॥ काकागमनतालपतनरूपो यः समागमस्तद्रप-