This page has been fully proofread twice.

तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम ।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥ ८ ॥
यत्तया मेलनं तत्र लाभो मे यश्च [^१] तद्रतेः ।
तदेतत्काकतालीयमवितर्कितसंभवम् ॥ ९ ॥
 
उपमेयादीनां चतुर्णां मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावेन लुप्तोपमेत्युच्यते । सा चाष्टधा । यथा -- वाचकलुप्ता १, धर्मलुप्ता २, धर्मवाचकलुप्ता ३, वाचकोपमेयलुप्ता ४, उपमानलुप्ता ५, वाचकोपमानलुप्ता ६,
धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति । तत्रोपमानलोपरहिताश्चत्वारो भेदास्तडिद्गौरीत्यादिश्लोकेन प्रदर्शिताः । तद्वन्तो भेदा उत्तरश्लोकेन प्रदर्शिताः । तत्र तडिद्गौरीत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे उपमानानि
सामान्यवचनैः' इति समासविधायकशास्त्रकृतः । इन्दुतुल्यास्येत्यत्र धर्मलोपः स त्वैच्छिको न शास्त्रकृतः । कान्त्या इन्दुतुल्यास्येत्यपि वक्तुं शक्यत्वात् । कर्पूरन्तीत्यत्र धर्मवाचकलोपः । कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरवदा-
नन्दात्मकाचारार्थकस्य व्किप इवशब्देन सह लोपात् । अत्र धर्मलोप ऐच्छिकः । नयनयोरानन्दात्मकतया कर्पूरन्तीति तदुपादानस्यापि सम्भवादिति ।
 
Commentary
 
शासनेन निरूढलक्षणावगमेऽप्यानुपूर्वीविशेषवत्तया शब्दविशेषस्य तदबोधनात् ॥ शास्त्रकृत इति ॥ शास्त्रप्रयुक्त इत्यर्थः ॥ कर्पूरन्तीत्यत्रेति । अत्र 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इत्यनेन विहितः क्विप् लुप्तोऽपि स्मर्यमाणो
धर्ममात्ररूपमाचारं बोधयति । कर्पूरपदं च लक्षणया कर्पूरसादृश्यम् । तस्य चातिरिक्तत्वे पूर्ववत्प्रयोजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वे त्वभेदेन । वस्तुतस्तु क्विब्लोपाप्रतिसन्धानेऽपि तथा बोधात्कर्पूरादिशब्दा एव कर्पूरादिसादृश्यप्रयोजकाभिन्नं तत्सादृश्याभिन्नं वाचारं लक्षयन्तीति युक्तम् । ननु वाचकस्येवादेरनुपादानाल्लोपो युक्तः साधारणधर्मस्य त्वाचाररूपस्य क्विबुपात्ततया कथं लोपस्तत्राह --कर्पूरवदानन्दात्मकाचारार्थस्य क्विप इति ॥ कर्पूरस्येवेतीवार्थे वतिः । आनन्दात्मको जनकतासम्बन्धेन। वस्तुगत्या आनन्दस्वरूपो य आचारस्तद्बोधकस्येत्यर्थः । ननु क्विब्लोपाज्ञानेऽप्याचारप्रतीतेः कर्पूरादिपदानामेव तद्बोधकत्वपक्षे कथं धर्मलोपः संगमनीय इति चेत् । अत्र प्राञ्चः । एवमपि तद्वाचकतया विहितस्य क्विपो लोपात्तल्लोपव्यपदेशः । अत एवात्र समानार्थकः क्यच् नोपात्तस्तस्यालुप्तवादित्याहुः । नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेऽप्यानन्दत्वादिना विशेषरूपेणानुपादानाद्धर्मलोपो युक्त एव । अन्यथा इन्दुतुल्यास्येत्यादेर्धर्मलुप्तोदाहरणस्यासङ्गतत्वापत्तेः । न चैवं क्यजादावपि धर्मलुप्ता स्यादिति वाच्यम् । इष्टापत्तेरित्याहुः ॥
 
[१ ^'तद्रते']