This page has been fully proofread once and needs a second look.

तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम ।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥ ८ ॥
यत्तया मेलनं तत्र लाभो मे यश्च [^१] तंद्रतेः ।
तदेतत्काकतालीयमवितर्कितसंभवम् ॥ ९ ॥
 
उपमेयादीनां चतुर्णां मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावेन
लुप्तोपमेत्युच्यते । सा चाष्टधा । यथा -- वाचकलुप्ता १, धर्मलुप्ता २, धर्मवा
चकलुप्ता ३, वाचकोपमेयलुप्ता ४, उपमानलुप्ता ५, वाचकोपमानलुप्ता ६,
धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति । तत्रोपमानलोपरहिता-
श्चत्वारो भेदास्तडिद्गौरीत्यादिश्लोकेन प्रदर्शिताः । तद्वन्तो भेदा उत्तरश्लोकेन
प्रदर्शिताः । तत्र तडिद्गौरीत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे उपमानानि
सामान्यवचनैः' इति समासविधायकशास्त्रकृतः । इन्दुतुल्यास्येत्यत्र धर्मलोपः
स त्वैच्छिको न शास्त्रकृतः । कान्त्या इन्दुतुल्यास्येत्यपि वक्तुं शक्यत्वात् ।
कर्पूरन्तीत्यत्र धर्मवाचकलोपः । कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरवदा-
नन्दात्मकाचारार्थकस्य व्किप इवशब्देन सह लोपात् । अत्र धर्मलोप ऐ-
च्छिकः । नयनयोरानन्दात्मकतया कर्पूरन्तीति तदुपादानस्यापि संसम्भवादिति ।
 
Commentary

शासनेन निरूढलक्षणावग मेऽप्यानुपूर्वी विशेषवत्तया शब्दविशेषस्य तदबोधना-
तू
त् ॥ शास्त्रकृत इति ॥ शास्त्रप्रयुक्त इत्यर्थः ॥ कर्पूरन्तीत्यत्रेति । अत्र
'सर्वप्रातिपदिकेभ्यः किव्क्विब्वा वक्तव्यः' इत्यनेन विहितः क्विप् लुप्तोऽपि स्मर्यमाणो
धर्ममात्ररूपमाचारं बोधयति । कर्पूरपदं च लक्षणया कर्पूरसादृश्यम् । तस्य चाति-
रिक्तत्वे पूर्ववत्प्रयोजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वे त्वभेदेन । वस्तुतस्तु
क्विब्लोपाप्रतिसन्धानेऽपि तथा बोधात्कर्पूरादिशब्दा एव कर्पूरादिसादृश्यप्रयो-
जकाभिन्नं तत्सादृश्याभिन्नं वाचारं लक्षयन्तीति युक्तम् । ननु वाचकस्येवादेरनु-
पादानाल्लोपो युक्तः साधारणधर्मस्य त्वाचाररूपस्य क्विबुपात्ततया कथं लोपस्तत्राह
 
- -कर्पूरवदानन्दात्मकाचारार्थस्य क्विप इति ॥ कर्पूरस्येवेतीवार्थे वतिः ।
आनन्दात्मको जनकतासंसम्बन्धेन। वस्तुगत्या आनन्दस्वरूपो य आचारस्तद्बोधकस्ये-
त्यर्थः । ननु क्विब्लोपाज्ञानेऽप्याचारप्रतीतेः कर्पूरादिपदानामेव तद्बोधकत्वपक्षे कथं
धर्मलोपः संगमनीय इति चेत् । अत्र प्राञ्चः । एवमपि तद्वाचकतया विहितस्य क्वि
पो लोपात्तल्लोपव्यपदेशः । अत एवात्र समानार्थकः क्यच् नोपात्तस्तस्यालुप्तवादि-
त्याहुः । नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेऽप्यानन्दत्वादिना विशेषरूपेणानु-
पादानाद्धर्मलोपो युक्त एव । अन्यथा इन्दुतुल्यास्येत्या
देर्धर्मलुप्तोदाहरणस्यासङ्गत-
त्वापत्तेः । न चैवं क्यजादावपि धर्मलुप्ता स्यादिति वाच्यम् । इष्टापत्तेरित्याहुः ॥
 
[^'तद्रते'.
 
]