This page has not been fully proofread.

उपमालंकारः १ ] अलंकारचन्तडिद्रिकासहितः ।
 
तडि
गौरीन्दुतुल्याख्स्या कर्पूरन्ती दृशोर्मम ।

कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥ ८ ॥

यत्तया मेलनं तत्र लाभो मे यश्च [^१] तंद्रतेः ।

तदेतत्काकतालीयमवितर्कितसंभवम् ॥ ९ ॥
 

 
उपमेयादीनां चतुर्णां मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावेन

लुप्तोपमेत्युच्यते । सा चाष्टधा । यथा - वाचकलुप्ता १, धर्मलुप्ता २, धर्मवा

चकलुप्ता ३, वाचकोपमेयलुप्ता ४, उपमानलुप्ता ५, वाचकोपमानलुप्ता ६,

धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति । तत्रोपमानलोपरहिता-

चत्वारो भेदास्तडिगौरीत्यादिश्लोकेन प्रदर्शिताः । तद्वन्तो भेदा उत्तरश्लोकेन

प्रदर्शिताः । तत्र तडिगौरीत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे उपमानानि

सामान्यवचनैः' इति समासविधायकशास्त्रकृतः । इन्दुतुल्यास्येत्यत्र धर्मलोपः

स त्वैच्छिको न शास्त्रकृतः । कान्त्या इन्दुतुल्यास्येत्यपि वक्तुं शक्यत्वात् ।

कर्पूरन्तीत्यत्र धर्मवाचकलोपः । कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरवदा-

नन्दात्मकाचारार्थकस्य किप इवशब्देन सह लोपात् । अत्र धर्मलोप ऐ-

च्छिकः । नयनयोरानन्दात्मकतया कर्पूरन्तीति तदुपादानस्यापि संभवादिति ।

शासनेन निरूढलक्षणावग मेऽप्यानुपूर्वी विशेषवत्तया शब्दविशेषस्य तदबोधना-

तू ॥ शास्त्रकृत इति ॥ शास्त्रप्रयुक्त इत्यर्थः ॥ कर्पूरन्तीत्यत्रेति । अत्र

'सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्यः' इत्यनेन विहितः विप् लुप्तोऽपि स्मर्यमाणो

धर्ममात्ररूपमाचारं बोधयति । कर्पूरपदं च लक्षणया कर्पूरसादृश्यम् । तस्य चाति-

रिक्तत्वे पूर्ववत्प्रयोजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वे वभेदेन । वस्तुतस्तु

क्विब्लोपाप्रतिसन्धानेऽपि तथा बोधात्कर्पूरादिशब्दा एव कर्पूरादिसादृश्यप्रयो-

जकाभिन्नं तत्सादृश्याभिन्नं वाचारं लक्षयन्तीति युक्तम् । ननु वाचकस्येवादेरनु-

पादानाल्लोपो युक्तः साधारणधर्मस्य त्वाचाररूपस्य विबुपात्ततया कथं लोपस्तत्राह
 

 
- कर्पूरवदानन्दात्मकाचारार्थस्य क्विप इति ॥ कर्पूरस्येवेतीवार्थे वतिः ।

आनन्दात्मको जनकतासंबन्धेन। वस्तुगत्या आनन्दस्वरूपो य आचारस्तद्बोधकस्ये-

त्यर्थः । ननु क्विब्लोपाज्ञानेऽप्याचारप्रतीतेः कर्पूरादिपदानामेव तद्बोधकत्वपक्षे कथं

धर्मलोपः संगमनीय इति चेत् । अत्र प्राञ्चः । एवमपि तद्वाचकतया विहितस्य क्विक

पो लोपात्तल्लोपव्यपदेशः । अत एवात्र समानार्थकः क्यच् नोपात्तस्तस्यालुप्तवादि-

त्याहुः । नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेऽप्यानन्दत्वादिना विशेषरूपेणानु-

पादानाद्धर्मलोपो युक्त एव । अन्यथा इन्दुतुल्यास्येत्या

देर्धर्मलुप्तोदाहरणस्यासङ्गत-

त्वापत्तेः । न चैवं क्यजादावपि धर्मलुप्ता स्यादिति वाच्यम् । इष्टापत्तेरित्याहुः ॥
 

 
१ 'तद्रते'.