2023-02-17 12:58:37 by ambuda-bot
This page has not been fully proofread.
६
कुवलयानन्दः ।
[ उपमालंकारः १
तयोर्मध्ये पूर्वस्य गुणस्य शिरसा श्लाघनं शिरःकम्पेनाभिनन्दनमुत्तरस्य दो-
षस्य कण्ठे नियमनं कण्ठादुपरि वाचानुद्घाटनमिति भेदात् । तथापि चन्द्र-
गरलयोर्गुणदोषयोश्च बिम्बप्रतिबिम्बभावेनाभेदादुपादानज्ञानादीनां गृह्णन्नि-
त्येकशब्दोपादानेन भेदाध्यवसायाच्च साधारणधर्मतेति पूर्वस्माद्विशेषः ।
वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्नयोः पृथगुपा-
दानं बिम्बप्रतिबिम्बभाव इत्यालंकारिकसमयः ॥ ६ ॥
च ।
वर्ण्योपमानधर्माणामुपमावाचकस्य
एकद्वित्र्यनुपादानैर्भिन्ना लुप्तोपमाष्टधा ॥ ७ ॥
-
रणस्य साधारणत्वाभावोक्तेरसङ्गतत्वापत्तेः । साधारण्याभावे हेतुरुपमा इत्यार-
भ्य इति मेदादित्यन्तेनोक्तः । समाधत्ते – तथापीति ॥ वस्तुगत्या साधारण्या-
भावेऽपीत्यर्थः । चन्द्रगरलयोरित्यादि यथाक्रमं चन्द्रगुणयोर्गलदोषयोश्चेत्यर्थः ।
बिम्बप्रतिबिम्बभावेन प्रतीयमानसादृश्ययोरुपमानोपमेयधर्मयोर्भिन्नशब्दोपात्तत्व-
रूपेणाभेदाध्यवसायात् । एतच्च साधारणधर्म तेत्यग्रेतनेनान्वितम्। ज्ञानादीत्यादिना
शिरसा वहनाभिनन्दनयोः कण्ठस्थापनतद्वहिरनुद्घाटनयोश्च संग्रहः । गृह्णन्नितीत्या-
दिना च शिरसा श्लाघते, कण्ठे नियच्छतीत्यनयोः संग्रहः ॥ अभेदाध्यवसाया
दिति ॥ अभेदस्याध्यवसायादाहार्यनिश्चयादित्यर्थः ॥ साधारणधर्मतेतीति ॥
साधारणधर्म त्वाभिमान विषय तेतीत्यर्थः । पूर्वस्मात्पूर्वोदाहरणादिति विशेष इत्यन्व-
यः । न चैवं साधर्म्यप्रतीत्युपपादनेति वस्तुतस्तदभावात्कथमुपमालक्षणसमन्वय
इति वाच्यम्। चमत्कार विशेषप्रयोजक साधारणत्वाध्यवसायविषयधर्मत्वस्यैवोपमा-
लक्षणत्वमित्यभिप्रायादिति । लोके बिम्बप्रतिबिम्वभावव्यपदेशस्य गगनजलाशया-
दिगतचन्द्रादिविषयतया प्रसिद्धेः कथं प्रकृते तव्यपदेश इत्याशङ्कायामाह-वस्तु-
त इत्यादि ॥ अभिन्नयोस्तथाध्यवसितयोः पृथगिति भिन्नशब्देनेत्यर्थः ॥ विम्ब
प्रतिबिम्बभाव इति ॥ बिम्बप्रतिबिम्बभावपदवाच्यमित्यर्थः । समय इति ।
-
इत्यर्थः ॥६॥ पूर्णायामुपमानादिसमग्रतानियमप्रसिद्धेस्तद्विपरीतायां लुप्तो-
पमायां सर्वलोपनियमाशङ्कानिरासाय लक्षणपूर्वकं तां विभजते – वर्ण्यत्यादि-
ना ॥ चकारो वाशब्दार्थे । तदनन्तरं च लोपे इत्यध्याहार्यम् । एवं चेतरेतरयो-
गाविवक्षया, वर्ण्यस्योपमानस्य धर्मस्योपमावाचकस्य वा लोपेऽन्यतमानुपादाने
लुप्तोपमा । सा च एकद्वित्र्यनुपादानैरष्टधा भिन्नति पूर्वापराभ्यामुक्तं भवति ।
तडिदित्याद्युदाहरणान्यर्थतो व्याचष्टे – उपमेयादीनामिति ॥ वस्तुतो लाघवा-
त्पूर्णाभिन्नत्वं लक्षणं बोध्यम् । लक्षणवाक्यगतं क्रममुपेक्ष्योदाहरणक्रमानुसारेण
विभागं दर्शयति- यथेत्यादि ॥ वाचकलुप्तेति ॥ वाचकत्वं चात्रानुपूर्वी विशे-
षवत्तयोपमाबोधने निरूढत्वम् । तच्च शक्त्या निरूढलक्षणया वा । तत्राद्यमिवा-
देद्वितीयं तु सुहृत्पदादेरिति । तदभावात्तडिगौरीत्यादौ वाचकलोपः । समासानु -
१. 'दानामिन्ना'.