This page has not been fully proofread.

उपमालंकारः १ ] अलंकारचन्द्रिकासहितः ।
 
यत्रोपमानोपमेययोः सहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति
व्यङ्ग्यमर्यादां विना स्पष्टं प्रकाशते तत्रोपमालंकारः । हंसीवेत्युदाहरणम् ।
इयंच पूर्णोपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहन मिवशब्दश्चेत्येतेषामुप-
मानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानात् । यथावा-
'गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ॥'
 
g
 
अत्र यद्यप्युपमानोपमेययोर्नैकः साधारणो धर्मः । उपमाने ईश्वरे चन्द्र-
गरलयोर्ग्रहणमुपादानं तयोर्मध्ये पूर्वस्य चन्द्रस्य शिरसा श्लाघनं वहनमुत्त-
रस्य गरलस्य कण्ठे नियमनं संस्थापनमुपमेये बुधे गुणदोषयोर्ग्रहणं ज्ञानं
 
शपरतयोस्रसदृशैः शरैरिति शरविशेषणवेन तृतीयादिसङ्गतिरिति वैयाकरणमतं तु
नादरणीयम् । उपास्यते गुरुरित्यादौ धात्वर्थासनक्रियाया अकर्मकतया कर्मलका-
रानुपपत्तिरूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभावेन दृष्टान्त
वैषम्यस्य स्फुटत्वात् । विशेषणविशेष्ययोः समान
विभक्तिकतायां 'विशेष्येण स है -
कार्थं भवेद्यत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे ॥' इत्यनुशा-
सनस्येवोपमानोपमेययोरपि तस्यां 'लिङ्गसंख्याविभेदेऽपि ह्युपमानोपमेयता । विं-
भक्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनस्य सत्त्वेनोपमानपदोत्तरतृती-
यादेः साधुत्वार्थतयोपपत्तेश्च । तस्माद्वाचकत्वमेवेवादीनाम् । युक्तं चैतत् । अन्यथा
सकलालंकारिकसंमतस्येवशब्दप्रयोगे श्रौतीत्यस्य दत्तजलाअलिलापत्तेः । रूढिप्र-
योजनयोरन्यतरस्याभावेन चन्द्रादिपदेन चन्द्रसदृशलक्षणायां निषिद्धलाक्षणिकत्व-
रूपनेयार्थत्वरूपदोषापत्तेश्च । अपिच इवादेर्योतकत्वनये चन्द्रादेरुपमानस्य पदार्थै-
कदेशतया तत्र साधारणधर्मान्वयानुपपत्तिरिति दिक् ॥ - उपमानेत्यादि ॥
उपमानत्वं चोपमानिरूपकत्वेन विवक्षितत्वं, तदाश्रयत्वेन विवक्षितत्वं चोपमेय-
त्वम् । साधारणत्वं च धर्मस्वारसिकमौपचारिकं बिम्बप्रतिबिम्बभावकृतं श्लेषकृतं
वस्तुप्रतिवस्तुभावेन समासभेदाश्रयणेनेत्यनेकधा चित्रमीमांसायां प्रपञ्चितम् ।
तत्र स्वर्गङ्गावगाहनस्य तथात्वमौपचारिकं कीर्तौ तस्य स्वारसिकत्वाभावात् ।
उपादानादिति वाचकस्योपादान निर्देशः । इतरेषां तु शब्देन प्रतिपादनं तदिति
चिन्तनीयम् ॥ साधारण्यप्रकार विशेषोपदर्शनायोदाहरणान्तरमाह- यथावेति ॥
गुणदोषाविति ॥ गुणदोषावर्थास्परस्य गृह्णन् जानन् बुधः पण्डितः पूर्व पूर्वनि-
र्दिष्टं गुणं शिरसा श्लाघते आन्दोलितेन शिरसाभिनन्दति । परं परतो निर्दिष्टं दोषं
कण्ठे नियच्छति निरुणद्धि । वाचा कण्ठाद्बहिर्नोद्घाटयतीत्यर्थः । क इव । इन्दु-
क्ष्वेडौ चन्द्रगरले गृह्णन्नुपाददान ईश्वरो हर इव । सोऽपि पूर्व चन्द्रं शिरसा श्ला-
घते तत्पूर्वकं धारयति । परं च गरलं कण्ठे नियच्छति स्थापयतीति । 'क्ष्वेडस्तु
गरलं विषम्' इत्यमरः ॥ शङ्कते – अत्र यद्यपीति । साधारणस्तत्त्वेनाभिमतो
धर्म: 'गृह्णन् शिरसा श्लाघते पूर्वम्' इत्यादिनोक्तो यद्यपि नैको न साधारण इति
योजना । गृह्णन्नित्यादिनोक्त एकोऽपि धर्मः साधारणो नेति वा । यथाश्रुते साधा-
4P