2023-04-19 10:18:18 by Bharadwajraki
This page has been fully proofread twice.
यत्रोपमानोपमेययोः सहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति व्यङ्ग्यमर्यादां विना स्पष्टं प्रकाशते तत्रोपमालंकारः । हंसीवेत्युदाहरणम् । इयंच पूर्णोपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिवशब्दश्चेत्येतेषामुपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानात् । यथावा --
'गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥'
अत्र यद्यप्युपमानोपमेययोर्नैकः साधारणो धर्मः । उपमाने ईश्वरे चन्द्रगरलयोर्ग्रहणमुपादानं तयोर्मध्ये पूर्वस्य चन्द्रस्य शिरसा श्लाघनं वहनमुत्तरस्य गरलस्य कण्ठे नियमनं संस्थापनमुपमेये बुधे गुणदोषयोर्ग्रहणं ज्ञानं
[commentary]
शपरतयोस्रसदृशैः शरैरिति शरविशेषणवेन तृतीयादिसङ्गतिरिति वैयाकरणमतं तु नादरणीयम् । उपास्यते गुरुरित्यादौ धात्वर्थासनक्रियाया अकर्मकतया कर्मलका- रानुपपत्तिरूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभावेन दृष्टान्तवैषम्यस्य स्फुटत्वात् । विशेषणविशेष्ययोः समानविभक्तिकतायां 'विशेष्येण सहैकार्थं भवेद्यत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे ॥' इत्यनुशासनस्येवोपमानोपमेययोरपि तस्यां 'लिङ्गसंख्याविभेदेऽपि ह्युपमानोपमेयता । विभक्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनस्य सत्त्वेनोपमानपदोत्तरतृतीयादेः साधुत्वार्थतयोपपत्तेश्च । तस्माद्वाचकत्वमेवेवादीनाम् । युक्तं चैतत् । अन्यथा सकलालंकारिकसंमतस्येवशब्दप्रयोगे श्रौतीत्यस्य दत्तजलाञ्जलिलात्वापत्तेः । रूढिप्रयोजनयोरन्यतरस्याभावेन चन्द्रादिपदेन चन्द्रसदृशलक्षणायां निषिद्धलाक्षणिकत्व-
रूपनेयार्थत्वरूपदोषापत्तेश्च । अपिच इवादेर्द्योतकत्वनये चन्द्रादेरुपमानस्य पदार्थैकदेशतया तत्र साधारणधर्मान्वयानुपपत्तिरिति दिक् ॥ -- उपमानेत्यादि ॥ उपमानत्वं चोपमानिरूपकत्वेन विवक्षितत्वं, तदाश्रयत्वेन विवक्षितत्वं चोपमेयत्वम् । साधारणत्वं च धर्मस्वारसिकमौपचारिकं बिम्बप्रतिबिम्बभावकृतं श्लेषकृतं वस्तुप्रतिवस्तुभावेन समासभेदाश्रयणेनेत्यनेकधा चित्रमीमांसायां प्रपञ्चितम् । तत्र स्वर्गङ्गावगाहनस्य तथात्वमौपचारिकं कीर्तौ तस्य स्वारसिकत्वाभावात् । उपादानादिति वाचकस्योपादाननिर्देशः । इतरेषां तु शब्देन प्रतिपादनं तदिति चिन्तनीयम् ॥ साधारण्यप्रकारविशेषोपदर्शनायोदाहरणान्तरमाह -- यथावेति ॥ गुणदोषाविति ॥ गुणदोषावर्थास्त्परस्य गृह्णन् जानन् बुधः पण्डितः पूर्व पूर्वनिर्दिष्टं गुणं शिरसा श्लाघते आन्दोलितेन शिरसाभिनन्दति । परं परतो निर्दिष्टं दोषं कण्ठे नियच्छति निरुणद्धि । वाचा कण्ठाद्बहिर्नोद्घाटयतीत्यर्थः । क इव । इन्दुक्ष्वेडौ चन्द्रगरले गृह्णन्नुपाददान ईश्वरो हर इव । सोऽपि पूर्वं चन्द्रं शिरसा श्लाघते तत्पूर्वकं धारयति । परं च गरलं कण्ठे नियच्छति स्थापयतीति । 'क्ष्वेडस्तु गरलं विषम्' इत्यमरः ॥ शङ्कते -- अत्र यद्यपीति । साधारणस्तत्त्वेनाभिमतो धर्म:मः 'गृह्णन् शिरसा श्लाघते पूर्वम्' इत्यादिनोक्तो यद्यपि नैको न साधारण इति योजना । गृह्णन्नित्यादिनोक्त एकोऽपि धर्मः साधारणो नेति वा । यथाश्रुते साधा-
'गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥'
अत्र यद्यप्युपमानोपमेययोर्नैकः साधारणो धर्मः । उपमाने ईश्वरे चन्द्रगरलयोर्ग्रहणमुपादानं तयोर्मध्ये पूर्वस्य चन्द्रस्य शिरसा श्लाघनं वहनमुत्तरस्य गरलस्य कण्ठे नियमनं संस्थापनमुपमेये बुधे गुणदोषयोर्ग्रहणं ज्ञानं
[commentary]
शपरतयोस्रसदृशैः शरैरिति शरविशेषणवेन तृतीयादिसङ्गतिरिति वैयाकरणमतं तु नादरणीयम् । उपास्यते गुरुरित्यादौ धात्वर्थासनक्रियाया अकर्मकतया कर्मलका